सेतु

Wiktionary तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेतुः, पुं, (सिनोति बध्नाति जलमिति । सि ञ बन्धने + “सितनिगमिमसीति ।” उणा ० १ । ७० । इति तुन् । क्षेत्रादेरालिः । इत्यमरः । २ । १ । १४ ॥ तत्पर्य्यायः । आली २ । इति भरतः ॥ पूरणः ३ पिण्डलः ४ । इति हारा- वली ॥ पङ्कारः ५ जङ्गालः ६ सञ्चरः ७ । इति जटाधरः ॥ पिण्डिलः ८ । इति शब्दरत्नावली ॥ धरणः ९ । इति त्रिकाण्डशेषः ॥ * ॥ तद्दानादि- फलं यथा, -- “सेतुप्रदानादिन्द्रस्य लोकमाप्नोति मानवः । प्रपाप्रदानाद्वरुणलो कमाप्नोत्यसंशयम् ॥ संक्रमाणान्तु यः कर्त्ता स स्वर्गं तरते नरः । खर्गलोके च निवसेदिष्टकासेतुकृत् सदा ॥” इति मठादिप्रतिष्ठातत्त्वम् ॥ * ॥ वरुणवृक्षः । इति मेदिनी राजनिर्घण्टश्च ॥ (अस्य पर्य्यायो गुणाश्च यथा, -- “वरुणो वराणः सेतुस्तिक्तशाकोऽग्निदीपनः । वरुणः पित्तलो भेदो श्लेष्मकृच्छ्राश्ममारुतान् ॥ निहन्ति गुल्भवातास्रक्रिमींश्चोष्णोऽग्निदीपनः । कषायो मधुरस्तिक्तः कटुको रूक्षको लघुः ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) प्रणवः । इति तन्त्रसारः ॥ अपि च । “मन्त्राणां प्रणवः सेतुस्तत्सेतुः प्रणवः स्मृतः । स्रवत्यनोंकृतं पूर्व्वं परस्ताच्च विशीर्य्यते ॥ नमस्कारो महामन्त्रो देव इत्युच्यते सुरैः । द्विजातीनामयं मन्त्रः शूद्राणां सर्व्वकर्म्मणि ॥ अकारञ्चाप्युकारञ्च मकारञ्च प्रजापतिः । वेदत्रयात् समुद्धृत्य प्रणवं निर्म्ममे पुरा ॥ स उदात्तो द्विजातीनां राज्ञां स्यादनुदात्तकः । स्वरितश्चोरुजातानां मनसापि तथा स्मरेत् ॥ चतुर्द्दशस्वरो योऽसी सेतुरौकारसंज्ञकः । स चानुस्वारचन्द्राभ्यां शूद्राणां सेतुरुच्यते ॥ निःसेतुञ्च यथा तोयं क्षणान्निम्नं प्रसर्पति । मन्त्रस्तथैव निःसेतुः क्षणात् क्षरति यज्वनाम् ॥ तस्मात् सर्व्वेषु मन्त्रेषु चतुर्व्वर्णा द्विजादयः । पार्श्वयोः सेतुमादाय जपकर्म्म समारभेत् ॥ शूद्राणामादिसेतुर्व्वा द्विसेतुर्व्वा यथेच्छतः । द्वे सेतू वः समाख्याताः सर्व्वदैव द्विजातयः ॥” इति कालिकापुराणे ५५ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेतु पुं।

सेतुः

समानार्थक:सेतु,आलि,वरण

2।1।14।1।3

पर्यन्तभूः परिसरः सेतुरालौ स्त्रियां पुमान्. वामलूरश्च नाकुश्च वल्मीकं पुन्नपुंसकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

सेतु पुं।

वरणः

समानार्थक:वरुण,वरण,सेतु,तिक्तशाक,कुमारक

2।4।25।1।3

वरुणो वरणः सेतुस्तिक्तशाकः कुमारकः। पुन्नागे पुरुषस्तुङ्गः केसरो देववल्लभः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेतु¦ पु॰ सि--तुन्।

१ क्षेत्रादेर्जलधारणार्थे (आल) (जाङ्गाल)पदार्थे अमरः।

२ वरुणवृक्षे मेदि॰। मन्त्रजपाङ्गे

३ प्रण-वात्मके मन्त्रे च स्वार्थे क। सेतुक वरुणवृक्षे शब्दर॰।
“सेतुप्रदानादिन्द्रस्य लोकमाप्नोति मानवः” मठादि॰ त॰। सेतुभेदश्च। सीमाविवादशब्दे

५३

०० पृ॰ उक्तः।
“सेतूश्च द्विविधः प्रोक्तः खेयो बन्ध्यस्तथाऽपरः। तोय-प्रवर्त्तनात् खेयो बन्ध्यस्तु तन्निवर्त्तनात्” नारदः। मन्त्रजपाङ्गसेतुश्च कालिका पु॰

५५ अ॰ उक्तो यथा
“मन्त्राणां प्रणवः सेतुस्तत्सेतुः प्रणवः स्मृतः। स्रवत्यनो॰ङ्खृतं पूर्वं परस्ताच्च विशीर्य्यति। नमस्कारो महामन्त्रोदेव इत्युच्यते सुरैः। द्विजातीनामयं मन्त्रः शूद्राणांसर्वकर्मणि। अकारञ्चाप्युकीरञ्च मकारञ्च प्रजापतिः। वेदत्रयात् समुद्धृत्य प्रक्षवं निर्ममे पुरा॰। स उदात्तोद्विजातीनां राज्ञां स्वादनुदात्तकः। स्वरितश्चोरुजातानांमनसापि तथा स्मरेत्। चतुर्दशस्वरो योऽसौ सेतुरो-कारसंज्ञकः। स चानुस्नारचन्द्राभ्यां शूद्राक्षां सेतुरच्यते। निःसेतुकं यथा तोयं क्षणान्निम्न प्रसर्पाति। मन्त्रस्त-थैव निःसेतुः क्षणात् क्षरेति यज्वनाम्। तस्मात् सर्वेषु[Page5331-b+ 38] मन्त्रेषु चतुर्वर्णा द्विजादयः। प्रार्श्वयोः सेतुमाधायजपकर्म समारभेत्। शूद्राणामादिसेतुर्वा द्विसेतुर्वायथेच्छतः। द्विसेतवः समाख्याता सर्वदैव द्विजातयः”।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेतु¦ m. (-तुः)
1. A mound, a bank, a causeway, dyke, an elevated piece of ground separating fields, and serving, during their inundation in the rains, for the passage of travellers, &c.
2. A bridge.
3. A pass, a defile, a road practised in mountainous countries, and places of difficult access.
4. A land-mark.
5. A boundary.
6. A barrier, an obstruction of any kind.
7. A fixed rule or law.
8. An epithet of the sacred syllable “Om.”
9. A tree, (Tapia cratæva.) E. षि to bind, तुन् Una4di aff.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेतुः [sētuḥ], [सि-तुन् Uṇ.1.69]

A ridge of earth, mound, bank, causeway, dam; नलिनीं क्षतसेतुबन्धनो जलसंघात इवासि विद्रुतः Ku.4.6; R.16.2.

A bridge in general; वैदेहि पश्या मलयाद्विभक्तं मत्सेतुना फेनिलमम्बुराशिम् R.13.2; सैन्यैर्बद्धद्विरदसेतुभिः 4.38;12.7; Ku.7.53.

A landmark; ज्येष्ठे मासि नयेत् सीमां सुप्रकाशेषु सेतुषु Ms.8.245.

A defile, pass, a narrow mountain-road.

A boundary, limit.

A barrier, limitation, obstruction of any kind; दुष्येयुः सर्ववर्णाश्च भिद्येरन् सर्वसेतवः Subhāṣ.

A fixed rule or law, an established institution; सूचकाः सेतुभेत्तारः ...... ते वै निरयगामिनः Mb.13.23.66.

The sacred syllable om; मन्त्राणां प्रणवः सेतुस्तत्सेतुः प्रणवः स्मृतः । स्रवत्यनोङ्कृतं पूर्वं परस्ताच्च विदीर्यते ॥ Kālikā P.

A reservoir or a lake; सहोदकं आहार्योदकं वा सेतुं बन्धयेत् Kau. A.2.1.

A bond, fetter.

An explanatory commentary.

Comp. बन्धः the forming or construction of a bridge, cause-way &c.; Kau. A.2.1; वयोगते किं वनिता- विलासो जले गते किं खलु सेतुबन्धः Subhāṣ.; Ku.4.6.

the ridge of rocks extending from the southern extremity of the Coromandel coast towards Ceylon (said to have been built for Rāma's passage to Laṅkā by Nala and the other monkeys); Bhāg.7.14.31.

any bridge or cause-way. -भेदिन् a.

breaking down barriers.

removing obstructions. (-m.) N. of a tree (दन्ती).

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सेतु mfn. (fr. 1. सि)binding , who or what binds or fetters RV.

सेतु m. a bond , fetter ib.

सेतु m. a ridge of earth , mound , bank , causeway , dike , dam , bridge , any raised piece of ground separating fields (serving as a boundary or as a passage during inundations) RV. etc.

सेतु m. राम's bridge(See. सेतुबन्ध) BhP.

सेतु m. a landmark , boundary , limit (also fig. = " barrier , bounds ") Mn. MBh. etc.

सेतु m. a help to the understanding of a text , an explanatory commentary (also N. of various commentaries) Cat.

सेतु m. an established institution , fixed rule MW.

सेतु m. the प्रणवor sacred syllable Om (which is said to be मन्त्राणां सेतुः) Ka1lP.

सेतु m. Crataeva Roxburghii or Tapia Crataeva(= वरण, वरुण) L.

सेतु m. N. of a son of द्रुह्युand brother of बभ्रुHariv.

सेतु m. of a son of बभ्रुPur.

सेतु m. of a place MW.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Babhru and father of आरब्ध. भा. IX. २३. १४-15; Vi. IV. १७. 2-3.
(II)--the name of the bridge built by राम to go to लन्का as testified by जाम्बवन्; sacred to Hari. Visited by बलराम who made a gift of cows to Brahmans here. भा. X. ५६. २८; VII. १४. ३६; X. ७९. १५-16.
(III)--a son of स्वारोचिष Manu. Br. II. ३६. १९.
(IV)--one of the two sons of Druhyu and father of Aruddha. Br. III. ७४. 7; M. ४८. 6; वा. ९९. 7.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SETU : A King of the family of Bharata. He was the son of Babhru and the father of Anārabdha. (Bhāga- vata, Skandha 9).


_______________________________
*2nd word in left half of page 715 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सेतु&oldid=456864" इत्यस्माद् पुनः प्राप्तिः