सेतुबन्धः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सेतुबन्धः, पुं, (सेतोर्बन्धः ।) लङ्कागमनार्थश्रीराम- कृतसमुद्रबन्धनसेतुः । तत्पर्य्यायः । समुद्रारुः २ । इति जटाधरः ॥ तद्विवरणं यथा, -- “ततोऽब्रवीद्रघुश्रेष्ठं सागरो विनयान्वितः । नलः सेतुं करोत्वस्मिन् जले मे विश्वकर्म्मणः ॥ सुतो धीमान् समर्थोऽस्मिन् कार्य्ये लब्धवरो हरिः । कीर्त्तिं गायन्तु ते लोकाः सर्व्वलोकमलापहाम् ॥ इत्युक्त्वा राघवं नत्वा ययौ सिन्धुरदृश्यताम् । ततोरामस्तु सुग्रीवलक्ष्मणाभ्यां समन्वितः । नलमाज्ञापयच्छीघ्रं वानरैः सेतुबन्धने ॥ ततोऽतिहृष्टः प्लवगेन्द्रयूथपै- र्महानगेन्द्रप्रतिमैर्युतो नलः । बबन्ध सेतुं शतयोजनायतं सुविस्तरं पर्व्वतपादपैर्दृढम् ॥” इति श्रीमदध्यात्मरामायणे लङ्काकाण्डे ३ अः ॥ “सेतुमारभ्यमाणस्तु तत्र रामेश्वरं शिवम् । सङ्कल्पनियतो गत्वा पुरीं वाराणसीं नरः ॥ आनीय गङ्गासलिलं रामेशमभिषिष्य च । क्षिप्त्वा समुद्रे तद्वारि ब्रह्म प्राप्नोत्यसंशयः ॥ कृतानि प्रथमेनाह्रा योजननां चतुर्द्दश । द्वितीयेन तथा चाह्रा योजनानाञ्च विंशतिः ॥ तृतीयेन तथा चाह्रा योजनान्ये कविंशतिः । चतुथन तथा चाह्रा द्वाविंशति तथा कृतम् ॥ पञ्चमेन त्रयोविंशयोजननां समन्ततः । बबन्ध सागरे सेतुं नलो वानरसत्तमः ॥ तेनैव जम्मुः कपयो योजनानां शतं द्रुतम् । असंख्याताः सुवेलाद्रिं रुरुहुः प्लवगोत्तमाः ॥ आरुह्य मारुतिं रामो लक्ष्मणाऽप्यङ्गदं तथा । दिदृक्षू राघवो लङ्कां नानाचित्रध्वजाकुलाम् ॥” इति तत्रैव ४ अध्यायः ॥ (क्षेत्रादेरालिबन्धनम् । यथा, महाभारते । ७ । ८४ । २ । “गतोदके सेतुबन्धो यादृक् तादृगयं तव । विलापो निष्फलो राजन् मा शुची भरतर्षभ ॥”
