सेनाचरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सेनाचरः, त्रि, (सेनायां चरतीति । चर + “भिक्षासेनादायेषु ।” ३ । २ । १७ । इति टः ।) सैन्यानुगामी । सेनया सह गन्ता । इति केक्षित् ॥ (यथा, महाभारते । १ । १३० । १४ । “मृगयाञ्चरतो राज्ञः शान्तनोश्च यदृच्छया । कश्चित् स्रेनाचरोऽरण्ये मिथुनं तदपश्यत ॥”)
