सामग्री पर जाएँ

सेनापतिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सेनापतिः, पुं, (सेनायाः पतिः ।) कार्त्तिकेयः । (क्वचित् वाच्यलिङ्गेऽपि दृश्यते । यथा, महा- निर्व्वाणतन्त्रे १ । १४ । “किमुच्यते महाप्राज्ञे कथ्यतां प्राणवल्लभे । यदकथ्यं गणेशेऽपि स्कन्दे सेनापतावपि ॥”) अनीकाधिपतिः । इति मेदिनी ॥ अस्य पर्य्यायः । सेनानीः २ वाहिनीपतिः ३ । इत्य- मरः । २ । ८ । ६२ ॥ सेनापतिलक्षणं यथा, -- “कुलीनः शीलसम्पन्नो धनुर्व्वेदविशारदः । हस्तिशिक्षाश्वशिक्षासु कुशलः श्लक्ष्णभाषणः ॥ निमित्ते शकुनज्ञाने वेत्ता चैव चिकित्सिते । कृतज्ञः कर्म्मणां शूरस्तथा क्लेशसहो ऋजुः ॥ व्यूहतत्त्वविधानज्ञः फल्गुसारविशेषवित् । राज्ञा सेनापपिः कार्य्यो ब्राह्मणः क्षत्त्रियो- ऽथवा ॥” इति मात्स्ये राजधर्म्मे । २१५ । ८ -- १० ॥ सेनापतौ वर्णनीयानि यथा, -- “सेनापतिर्ज्जितावासः स्वामिभक्तः सुधीरभीः । अभ्यासी वाहने शस्त्रे शास्त्रे च विजयी रणे ॥” इति कविकल्पलतायाम् १ स्तवके वर्ण्यस्थिति- र्नाम ३ कुसुमम् ॥

"https://sa.wiktionary.org/w/index.php?title=सेनापतिः&oldid=178507" इत्यस्माद् प्रतिप्राप्तम्