सेवम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सेवम्, क्ली, (सेव्यते यदिति । सेव + घञ् ।) सेवि- फलम् । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो गुणाश्च यथा -- “मुष्टिप्रमाणं वदरं सेवं सिवितिकाफलम् । सेवं समीरपित्तघ्नं वृंहणं कफकृद्गुरुः । रसे पाके च मधुरं शिशिरं रुचिशुक्रकृत् ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
