सेव्यम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सेव्यम्, क्ली, (सेव्यते इति । सेव + ण्यत् ।) वीरण- मूलम् । इत्यमरः । २ । ४ । १६४ ॥ (अस्य पर्य्यायो यथा, -- “वीरणस्य तु मूलं स्यादुशीरं नलदञ्च तत् । अमृणालञ्च सेव्यञ्च समगन्धिकमित्यपि ॥” इति भावप्रकाशे पूर्व्वखण्डे १ भागे ॥ लामज्जकम् । उशीरवत्पीतच्छवितृणविशेषः । तत्पर्य्यायो यथा, -- “लामज्जकं सुनालं स्यादमृणालं लयं लघुः । इष्टकापथकं सेव्यं नलदञावदातकम् ॥ इति च भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥ “स्यादुशोरं मृणालञ्च सेव्यं लामज्जकन्तथा ।” इति गारुडे २०८ अध्यायः ॥)
