सामग्री पर जाएँ

सैकतः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सैकतः, त्रि, (सिकताः सन्त्यत्रेति । सिकता + “सिकताशर्कराभ्याञ्च ।” ५ । २ । १०४ । इति अण् ।) सिकतामयः । इत्यमरः । १ । १० । ९ ॥ तत्पर्य्यायः । सिकतिलः २ सिकतावान् ३ । इति राजनिर्घण्टः ॥ (यथा, भागवते । ११ । २८ । १२ । “शैली दारुमयी लौही लेप्या लेख्या च सैकती । मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता ॥”)

"https://sa.wiktionary.org/w/index.php?title=सैकतः&oldid=178561" इत्यस्माद् प्रतिप्राप्तम्