सामग्री पर जाएँ

सैन्धवः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सैन्धवः, पुं, (सिन्धुरभिजनोऽस्येति । सिन्धु + “सिन्धुतक्षशिलादिभ्योऽणञौ ।” ४ । ३ । ९३ । इति अण् ।) घोटकः । स तु सिन्धोरदूरभवः । विकारसंघेति अदूरभवार्थे ष्णः । इत्यमर- भरतौ । २ । ८ । ४४ । (यथा, भागवते । ९ । १ । २३ । “स एकदा महाराज ! विचरन् मृगयां वने । वृतः कतिपयामात्यैरश्वमारुह्य सैन्धवम् ॥” सिन्धुदेशाधिपतिः । जयद्रथः । यथा, महा- भारते । १ । १ । १९६ । “यदा द्रोणः कृतवर्म्मा कृपश्च कर्णो द्रौणिर्भद्रराजश्च शूरः । अमर्षयन् सैन्धवं वध्यमानं तदा नाशंसे विजयाय सञ्जय ॥” सिन्धुदेशोत्पन्नमात्रे । यथा, तत्रैव । ३ । ५१ । २४ “हारहूनांश्च चीनांश्च तुखारान् सैन्धवांस्तथा ॥”)

"https://sa.wiktionary.org/w/index.php?title=सैन्धवः&oldid=178578" इत्यस्माद् प्रतिप्राप्तम्