सामग्री पर जाएँ

सैरिन्ध्री

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सैरिन्ध्री, स्त्री, (स्वैरं स्वातन्त्र्यं धरतीति । धृ + मूलविभुजादित्वात् कः । पृषोदरादित्वात् साधुः । गौरादित्वात् ङीष् ।) परवेश्मस्था स्ववशा शिल्पकारिका । इत्यमरः । २ । ६ । १८ ॥ तत्पर्य्यायः । सैरन्ध्री २ सैरिन्ध्रिः ३ । इति तट्टीका ॥ (यथा, महाभारते । ४ । ८ । २ । “वासश्च परिधायैकं कृष्णं सुमलिनं महत् । कृत्वा वेशं हि सैरिन्ध्य्राः कृष्णा च व्यचरत् तदा ॥”) वर्णसङ्करसम्भूतस्त्री । महल्लिका । इति मेदिनी । द्रौपदी । इति धरणिः ॥ (यथा, महाभारते । ४ । २३ । ५ । “यथा सैरिन्ध्रीदोषेण न ते राजन्निदं पुरम् । विनाशमेति वै क्षिप्रं तथा नीतिर्विधीयताम् ॥”

"https://sa.wiktionary.org/w/index.php?title=सैरिन्ध्री&oldid=178591" इत्यस्माद् प्रतिप्राप्तम्