सामग्री पर जाएँ

सैरेयः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सैरेयः, पुं, (सैरे कर्षे भवः । सैर + “नद्यादिभ्यो ढक् ।” ४ । २ । ९७ । इति ढक् ।) झिण्टी । इति शब्दमाला भरतश्च ॥ (अस्य पर्य्यायो यथा, -- “सैरेयकः श्वेतपुष्पः सैरेयः कटसारिका । सहाचरः सहचरः स च भिन्द्यपि कथ्यते ॥” अथास्य गुणाः । “सैरेयः कुष्ठवातास्रकफकण्डूविषापहः । तिक्तोष्णो मधुरोऽनम्लः सुस्निग्धः केशरञ्जनः ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

"https://sa.wiktionary.org/w/index.php?title=सैरेयः&oldid=178599" इत्यस्माद् प्रतिप्राप्तम्