सोपानम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सोपानम्, क्ली, (उपानमुपरिगमनं तेन सह विद्य- मानम् ।) आरोहणम् । इत्यमरः । २ । २ । १८ ॥ इष्टंकादिरचिते पयिठा इति ख्याते । देशान्तरे खडखडीति यत् प्रसिद्धम् । आरुह्यते अनेन आरोहणं अनट् । उपपूर्व्वादनितेर्भावे अल् अनेकार्थत्वादुपानं ऊर्द्धगमनं तेन सह वर्त्तते सोपानम् । सोपानसिद्धसाध्याः संवाधसमूढ- सत्राणीति दन्त्यादावुष्मविवेकः । इति भरतः ॥ किञ्च । “आरोहणश्च सोपानं पैठा इति समाह्वये । सोपाने काष्ठघटिते निःश्रेणिस्त्वधिरोहिणी ॥ निःश्रेणी स्यान्निःश्रयणी तथा निःश्रेयिणी- त्यपि ॥” इति शब्दरत्नावली ॥ (यथा, कुमारे । १ । २९ । “मध्ये न सा वेदिविलग्नमध्वा बलित्रयं चारु बभार बाला । आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम् ॥”
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सोपानम् [sōpānam], Steps, stairs, a staricase, ladder; आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम् Ku.1.39. -Comp. -पङ्क्तिः f., -पथः, -पद्धतिः f., -परंपरा, -मार्गः a flight of steps, a stair-case; वापी चास्मिन् मरकतशिलाबद्धसोपानमार्गा Me.78; समारुरुक्षुर्दिवमायुषः क्षये ततान सोपानपरंपरामिव R.3.69; 6.3;16.56. -माला winding stairs.
