सामग्री पर जाएँ

सोमयागः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सोमयागः, पुं, (सोमात्मको यागः ।) सोमलता- रसपानाङ्गकत्रैवार्षिकयज्ञविशेषः । यथा, -- नारद उवाच । “सोमयागविधानञ्च ब्रूहि मां मुनिसत्तम । कथं तं कारयामास गुरुश्च किं फलं परम् ॥ नारायण उवाच । ब्रह्महत्याप्रशमनं सोमयागफलं मुने । वर्षं सोमलतापानं यतमानः करोति च ॥ वर्षमेकं फलं भुङ्क्ते वर्षमेकं जलं मुदा । त्रैवार्षिकमिदं यागं सर्व्वपापप्रणाशनम् ॥ यस्य त्रैवार्षिकं धान्यं निहितं भूतिवृद्धये । अधिकं वापि विद्येत स सोमं पातुमर्हति ॥ महाराजश्च देवो वा यागं कर्त्तुमलं मुने । न सर्व्वसाध्यो यज्ञोऽयं बह्वन्नो बहुदक्षिणः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ६० । ५४-५८ ॥

"https://sa.wiktionary.org/w/index.php?title=सोमयागः&oldid=178671" इत्यस्माद् प्रतिप्राप्तम्