सामग्री पर जाएँ

सोमराजिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सोमराजी, [न्] पुं, सोमेनं सोमवद्वा राजते इति । राज + णिनिः ।) ओषधिविशेषः । सोमराज इति हाकुच इति च भाषा । तत्प- र्य्यायः । अवल्गुजः २ सुवल्लिः ३ सोमवल्लिका ४ कालमेषी ५ कृष्णफला ६ वाकुची ७ पूति- फली ८ । इत्यमरः । २ । ४ । ९६ ॥ सोमराजी ९ सुवल्ली १० सोमवल्लिः ११ कालमेशी १२ । इति भरतः ॥ सोमवल्ली १३ वागुजी १४ वाकुजी १५ कालमेषिका १६ सोमराजिका १७ । इति शब्दरत्नावली ॥ अन्यच्च । “वागुजी चन्द्रलेखा स्यात् सोमराजी त्ववल्- गुजा । कृष्णा पूतिफला कुष्ठनाशिनी सा सिता परा ॥” इति रत्नमाला ॥ अस्य गुणाः । वातकफकुष्ठत्वग्दोषनाशित्वम् । इति राजवल्लभः ॥ अपि च । “अवलगुजो वाकुची स्यात् सोमराजी सुप- र्णिका । शशिलेख्या कृष्णफला सोमा पूतिफलीति च ॥ सोमवल्ली कालमेषी कुष्ठघ्नी च प्रकीर्त्तिता । वाकुची मधुरा तिक्ता कटुपाका रसायनी ॥ विष्टम्भहृद्धिमा रुच्या सरा श्लेष्मास्रपित्तनुत् । रूक्षा हृद्या श्वासकुष्ठमेहज्वरकृमिप्रणुत् ॥ तत्फलं पित्तलं कुष्ठकफानिलहरं कटु । केश्यं त्वच्यं कृमिश्वासकासशोथामपाण्डुहृत् ॥” इति भावप्रकाशः ॥ राजनिर्घण्टोक्तगुणपर्य्यायौ वाकुचीशब्दे द्रष्टव्यौ

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सोमराजिन्¦ m. (-जी) A medicinal plant, (Serratula anthelmintica.) E. सोम the moon. राज् to shine, aff. णिनि; or with अच् and ङीष् added, सामराजी; and again with कन् added, सोमराजिका |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सोमराजिन्/ सोम--राजिन् m. id. L.

"https://sa.wiktionary.org/w/index.php?title=सोमराजिन्&oldid=247855" इत्यस्माद् प्रतिप्राप्तम्