सोमरोगः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सोमरोगः, पुं, स्त्रीरोगविशेषः । यथा, -- अथ सोमरोगाधिकारः । तत्र सोमरोगस्य निदानपूर्व्विकां सम्प्राप्तिमाह । “स्त्रीणामतिप्रसङ्गेन शोकाच्चापि श्रमादपि । अतिसारकयोगाद्वा गरयोगात्तथैव च ॥ आपः सर्व्वशरीरस्थाः क्षुभ्यन्ति प्रस्रवन्ति च । तस्यास्ताः प्रच्युताः स्थानान्मूत्रमार्गं व्रजन्ति हि ॥” अथ तस्य लक्षणमाह । “प्रसन्ना विमला शीता निर्गन्धा नीरुजः सिताः । स्रवन्ति चातिमात्रं ताः सा न शक्नोति दुर्ब्बला ॥ वेगं धारयितुं तासां न विन्दति मुखं क्वचित् । शिरःशिथिलता तस्या मुखं तालु च शुष्यति ॥ मूर्च्छा जृम्भा प्रलापश्च त्वग्रूक्षा चातिमात्रतः ॥ भक्ष्यैर्भोज्यैश्च पेयैश्च न तृप्तिं लभते सदा ॥ सन्धारणाच्छरीरस्य ता आपः सोमसंज्ञिताः । ततः सोमक्षयात् स्त्रीणां सोमरोगे इति स्मृताः” अथ सोमरोगस्य चिकित्सा । “कदलीनां फलं पक्वं धात्रीफलरसं मधु । शर्क्करासहितं खादेत् सोमधारणमुत्तमम् ॥ १ ॥ माषचूर्णं समधुकं विदारीं मधुशर्क्कराम् । पयसा पाययेत् प्रातः सोमधारणमुत्तमम् ॥ २ ॥ ॥ स एव सरुजः सोमः स्रवेन्मूत्रेण चेन्मुहुः । तत्रै लापत्रचूर्णेन पाययेत्तरुणीं सुराम् ॥ ३ ॥ जलेनामलकीबीजकल्कं समधुशर्क्करम् । पिबेद्दिनत्रयेणैव श्वेतप्रदरनाशनम् ॥ ४ ॥ तक्रोदनाहाररता संपिबेन्नागकेशरम् । त्र्यहं तक्रेण संपिष्टं श्वे तप्रदरनाशनम् ॥” * ॥ तत्रैव मूत्रातीसारस्य लक्षणं चिकित्साञ्चाह । “सोमरोगे चिरं जाते यदा मूत्रमतिस्रवेत् । मूत्रातिसारं तं प्राहुर्बलविध्वंसनं परम् ॥ तालकन्दञ्च खर्ज्जूरं मधुकञ्च विदारिकाम् । सितामधुयुतां खादेत् मूत्रातीसारनाशनम् ॥ १ चक्रमर्द्द कमूलन्तु संपिष्टं तण्डुलाम्बुना । प्रभातसमये पीतं जलप्रदरनाशनम् ॥” २ ॥ इति सोमरोगे मूत्रातिसाराधिकारः । इति भावप्रकाशः ॥ (तथाचास्य चिकित्सोपयोगि- वटिकौषधं यथा, -- “कर्षं जारितलौहञ्च तदर्द्धं रसगन्धकम् । एलापत्रं निशायुग्मं जम्बुवीरणगोक्षुरम् ॥ विडङ्गं जीरकं पाठा धात्रीदाडिमटङ्कणम् । चन्दनं गुग्गुलुं लोध्रशालार्ज्जुनरसाञ्जनम् ॥ छागीदुग्धेन वटिकां कारयेद्दशरक्तिकाम् । निर्म्मितो नित्यनाथेन सोमनाथरसस्त्वयम् ॥ सोमरोगं बहुविधं प्रदरं हन्ति दुर्ज्जयम् । योनिशूलं मेढ्रशूलं सर्व्वजं चिरकालजम् । बहुमूत्रं विशेषेण दुर्ज्जयं हन्त्यसंशयः ॥” इति सोमनाथरसः ॥ इति वैद्यकरसेन्द्रसारसंग्रहे सोमरोगाधिकारे ॥)
