सामग्री पर जाएँ

सोमवंश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सोमवंशः, पुं, (सोमस्य वंश उत्पत्तिस्थानत्वेना- स्त्यस्य ।) युधिष्ठिरराजः । इति धरणिः ॥ (सोमस्य वंशः ।) चन्द्रसन्तानः । तद्विवरणं यथा, हरिरुवाच । “सूर्य्यस्य कथितो वंशः सोमवंशं शृणुष्व मे । नारायणसुतो ब्रह्मा ब्रह्मणोऽत्रिसमुद्भवः ॥ अत्रेः सोमस्तस्य भार्य्या तारा सुरगुरोः प्रिया । सोमात्तस्यां बुधो जज्ञे बुधपुत्त्रः पुरूरवाः ॥ बुधपुत्त्रादथोर्व्वश्यां षट् पुत्त्रास्तु श्रुतायुषः । विश्वावसुः शतायुश्च आयुर्द्धीमानमावसुः ॥ अमावसोरभूद्भीमो भीमपुत्त्रश्च काञ्चनः । काञ्चनस्य सुहोत्रोऽभूत् जह्नुश्चाभूत् सुहोत्रतः ॥ जह्नोः सुमन्तुरभवत् सुमन्तो रूपराजकः ।” रूपराजकस्थाने अपजापकोऽपि पाठः । “बलाकाश्वोऽस्य पुत्त्रोऽभूत् बलाकाश्वात् कुशः स्मृतः ॥ कुशाश्वः कुशनाभश्चामूर्त्तरयो वसुः कुशात् । गाधिः कुशाश्वात् संजज्ञे विश्वामित्रस्तदात्मजः कन्या सत्यवती दत्ता ऋचीकाय द्विजाय सा । ऋचीकाद्यमदग्निश्च रामस्तस्याभवत् सुतः ॥ विश्वामित्राद्देवरातमधुच्छन्दादयः सुताः । आयुषो नहुषः पुत्त्रस्त्वनेनाराजिरम्भकौ ॥ क्षत्त्रवृद्धः क्षत्त्रवृद्धात् सुहोत्रश्चाभवन्नृपः । काश्यकाशगृत्समदाः सुहोत्रादभवंस्त्रयः ॥ गृत्समदाच्छौनकोऽभूत् काश्याद्दीर्घतमस्तथा । वैद्यो धन्वन्तरिस्तस्मात् केतुमांश्च तदात्मजः ॥” वैद्यस्थाने रेभ्य इत्यपि पाठः । भीमरथः केतुमतो दिवोदासस्तदात्मजः । दिवोदासात् प्रतर्द्दनोऽभूच्छत्रुजित् सोऽत्र विश्रुतः ॥ ऋतध्वजस्तस्य पुत्त्रो ह्यलर्कश्च ऋतध्वजात् । अलर्कात् सन्नतिर्जज्ञे सुनीथः सन्नतेः सुतः ॥ सत्यकेतुः सुनीथस्य स्रत्यकेतोर्व्विभुः सुतः । विभोस्तु सुविभुः पुत्त्रः सुविभोः स्वर्गमारकः ॥ स्वर्गमारकस्थाने सुकुमारकोऽपि पाठः । “स्वर्गमाराद्धृष्टकेतुर्व्वीतिहोत्रस्तदात्मजः । वीतिहोत्रस्य भार्गोऽभूत् भार्गभूमिस्तदात्मजः ॥ भार्गभूमिस्थाने भासभूमिरिति च पाठः । “वैष्णवाः सुमहात्मान इत्यनेकाशयो नृपाः ॥” पञ्चपुत्त्रशतान्यासन्रजेः शक्रेण संहृताः । प्रतिक्षत्त्रः क्षत्त्रवृद्धात् सञ्जयश्च तदात्मजः ॥ सत्यहितात् सुधन्वाभूज्जह्रुश्चैव सुधन्वतः ॥” जह्रुस्थाने जन्तुरिति च पाठः । “बृहद्रथाज्जरासन्धः सहदेवस्तदात्मजः सहदेवाच्च सोमापिः सोमापेः श्रुतवान् सुतः ॥ भीमसेनप्रसेनौ च श्रुतसेनोऽपराजितः ।” प्रसेनस्थाने उग्रसेन इति च पाठः । “जनमेजयश्चान्योऽभूज्जह्रोस्तु सुरथोऽभवत् । विदूरथस्तु सुरथात् सार्व्वभौमो विदूरथात् ॥ जयत्सेनः सार्व्वभौमादराधीतस्तदात्मजः । अयुतायुस्तस्य पुत्त्रस्तस्य चाक्रोधनः सुतः ॥ अक्रोधनस्यातिथिश्च ऋक्षोऽभूदतिथेः सुतः । ऋक्षाच्च भीमसेनोऽभूद्दिलीपो भीमसेनतः ॥ प्रतीपोऽभूद्दिलीपात्तु देवापिस्तु प्रतीपतः । शान्तनुश्चैव वाह्लीकस्त्रयस्ते भ्रातरो नृपाः । वाह्लीकात् सोमदत्तोऽभूत् भूरिभूरिश्रवास्ततः ॥ शलश्च शान्तनोर्भीष्मो गङ्गायां धार्म्मिको महान् । चित्राङ्गदविचित्रौ तु सत्यवत्यान्तु शान्तनोः ॥ विचित्रवीर्य्यभार्य्ये तु अम्बिकाम्बालिका तयोः धृतराष्ट्रञ्च पाण्डुञ्च तद्दास्यां विदुरन्तथा ॥ व्यास उत्पादयामास गान्धार्य्यां धृतराष्ट्रतः । शतं पुत्त्रं दुर्य्योधनाद्यं पाण्डोः पञ्च प्रजज्ञिरे ॥ प्रतिबिन्ध्यः सुतः सोमः श्रुतकीर्त्तिस्तु चार्ज्जुनात् शतानीकः श्रुतकर्म्मा द्रौपद्यां पञ्च वै क्रमात् ॥ यौधेयी च हिडिम्बा च काशी चैव शुभद्रिका विजया वै वेणुमती पञ्चभ्यस्तु सुताः क्रमात् ॥ देवको घटत्कचश्च अभिमन्युश्च सर्व्वशः । सुहोत्रो निरमित्रश्च परिक्षिदभिमन्युजः ॥” अत्र अहोत्रो निरपत्रश्चेति तृतीयचरणे पाठः । “जनमेजयश्च ततो भविष्यांश्च नृपाञ्छृणु ॥” इति गारुडे १४४ अध्यायः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सोमवंश¦ पु॰ सोमस्य वंशः।

१ चन्द्रवंशे

२ चद्रावधिके गोत्र-परम्पराजाते क्षत्रिये भाग॰

९ स्कन्धे दृश्यम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सोमवंश¦ m. (-शः)
1. A name of YUDHISHT'HIRA.
2. The lunar dynasty, or series of princes supposed to descend through BUDHA the son of SO4MA, or the moon. E. सोम, and वंश family.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सोमवंश/ सोम--वंश m. the lunar race or dynasty(See. चन्द्र-व्) Hariv. S3atr. (See. IW. 375 ; 411 n. 1 )

सोमवंश/ सोम--वंश mfn. = -वंशीय

सोमवंश/ सोम--वंश m. N. of युधि-ष्ठिरL.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Somavaṁśa  : m. (sg.): The lineage of Soma.

Bhīma told Hanūmant that he, a Kaurava, was born in the lineage of Soma (kauravaḥ somavaṁśīyaḥ kuntyā garbheṇa dhāritaḥ) 3. 147. 3 [See Somakula and the next entry].

_______________________________
*1st word in left half of page p930_mci (+offset) in original book.

Mahabharata Cultural Index

"https://sa.wiktionary.org/w/index.php?title=सोमवंश&oldid=446985" इत्यस्माद् प्रतिप्राप्तम्