सामग्री पर जाएँ

सोमवल्क

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सोमवल्कः, पुं, (सोमस्येव वल्को यस्य ।) श्वेत- खदिरः । इत्यमरः । २ । ४ । ५० ॥ (अस्य पर्य्यायो यथा, -- “सोमवल्को ब्रह्मशल्यः कदरः खदिरोपमः ॥” इति वैद्यकरत्नमालायाम् ॥) कट्फलः । इति मेदिनी ॥ (अस्य पर्य्यायो यथा, “कट्फलः सोमवल्कश्च कैटर्य्यः कुम्भिकापि च श्रीपर्णिका कुमुदिका भद्रा भद्रवतीति च ॥” इति भावप्रकाशे पूर्व्वखण्डे प्रथमे भागे ॥) करञ्जः । इति जटाधरः ॥ (अस्य पर्य्यायो यथा, “स चोक्तः पूतिकरञ्जः सोमवल्कश्च स स्मृतः ।” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) रीठाकरञ्जः । इति राजनिर्घण्टः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सोमवल्क पुं।

श्वेतखदिरः

समानार्थक:कदर,सोमवल्क

2।4।50।2।1

अरिमेदो विट्खदिरे कदरः खदिरे सिते। सोमवल्कोऽप्यथ व्याघ्रपुच्छगन्धर्वहस्तकौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

सोमवल्क पुं।

कुम्भी

समानार्थक:श्रीपर्णिका,कुमुदिका,कुम्भी,कैटर्य,कट्फल,भूतिक,सोमवल्क

3।3।9।1।1

सिते च खदिरे सोमवल्कः स्यादथ सिह्लके। तिलकल्के च पिण्याको बाह्लीकं रामठेऽपि च॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सोमवल्क¦ पु॰ सोमस्येव वल्कोस्य।

१ करञ्जे जटा॰।

२ रीठा-करञ्जे राजनि॰

३ श्वेतखदिरे

४ कट्फले च मेदि॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सोमवल्क/ सोम--वल्क m. N. of various plants (Acacia Arabica ; a sort of the करञ्जetc. ) Car. Sus3r. Bhpr.

"https://sa.wiktionary.org/w/index.php?title=सोमवल्क&oldid=247937" इत्यस्माद् प्रतिप्राप्तम्