सोमवल्लरी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सोमवल्लरी, स्त्री, (सोमस्य वल्लरिः । वा ङीष् ।) सोमलता । तत्पर्य्यायः । ब्राह्मी २ मत्स्याक्षी ३ वयःस्था ४ । इत्यमरः । २ । ४ । १३७ ॥ चत्वारि सोमलतायाम् । ब्राह्मीशाक इति केचित् । अतिपवित्रत्वेन ब्रह्मणः प्रियत्वात् ब्रह्मणो ब्राह्मणस्य वा इयं ब्राह्मी ष्णः नञा निर्द्दिष्टं व्यभिचरतीति मन- वर्ज्जानिति निषेधाभावे नोर्लोपौ ताविति नस्य लोपः णित्त्वे व्रिरिति वृद्धिः षित्वादीप् अनित- श्चेत्युक्तेर्णित्त्वाभावविवक्षया वृद्ध्यभावे ब्रह्मी च “ब्राह्मी वयःस्था मत्स्याक्षी ब्रह्मी च सोम- वल्लरी ।” इति वाचस्पतिः ॥ लोपः णित्त्वे व्रिरिति वृद्धिः षित्वादीप् अनित- श्चेत्युक्तेर्णित्त्वाभावविवक्षया वृद्ध्यभावे ब्रह्मी च “ब्राह्मी वयःस्था मत्स्याक्षी ब्रह्मी च सोम- वल्लरी ।” इति वाचस्पतिः ॥ मत्स्याक्षितुल्यपुष्पत्वात् मत्स्याक्षी । वयो यौवनं तिष्ठत्यनया वयःस्था भिदादित्वात् ङः मध्य- विसर्गा मनीषादित्वात् विसर्गलोपे निर्व्विसर्गा च । सोमेन यागार्थमुपात्तेति सोमवल्लरी अर्थ- परत्वात् इन्दुवल्लरी चन्द्रवल्लरी इत्याद्यपि । वल्लर्य्या लतार्थपरत्वात् सोमवल्ली सोमलता सोमवल्लिका इत्याद्यपि पाठः । इति भरतः ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सोमवल्लरी स्त्री।
ब्रम्ही
समानार्थक:ब्रम्ही,मत्स्याक्षी,वयःस्था,सोमवल्लरी
2।4।137।2।5
स्याद्दक्षगन्धा छगलान्त्र्यावेगी वृद्धदारकः। जुङ्गो ब्रम्ही तु मत्स्याक्षी वयस्था सोमवल्लरी॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सोमवल्लरी/ सोम--वल्लरी f. =prec. ib.
सोमवल्लरी/ सोम--वल्लरी f. Ruta Graveolens L.
