सोमवारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोमवारः, पुं, (सोमस्य वारः ।) सोमस्य भोग्य- दिनम् । चन्द्रवासरम् । यथा, -- “सोमवारेऽप्यमावास्या आदित्याहे च सप्तमी चतुर्थी भौमवारे च अक्षयादपि चाक्षया ॥” इति तिथ्यादितत्त्वम् ॥ * ॥ तद्दिवसीयवारवेला यथा, -- “रवौ वर्ज्यं चतुः पञ्च सोमे सप्त द्वयं तथा ।” इति ज्योतिःसागरसारः ॥ तद्रात्रौ कालवेला यथा, -- “रवौ षष्ठं विधौ वेदं कुजवारे द्वितीयकम् । बुधे सप्त गुरौ पञ्च भृगुवारे तृतीयकम् । शनावाद्यं तथा चान्तं रात्रौ कालं विवर्ज्जयेत् ॥” इति ज्योतिःसारः ॥

"https://sa.wiktionary.org/w/index.php?title=सोमवारः&oldid=505798" इत्यस्माद् प्रतिप्राप्तम्