सोमवारव्रतम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सोमवारव्रतम्, क्ली, (सोमवारकर्त्तव्यं व्रतम् ।) प्रतिसोमवारोपवासपूर्व्वकसायंकालकर्त्तव्यशिव- दुर्गापूजारूपव्रतविशेषः । तद्विवरणं यथा, -- “सोमवारे विशेषेण प्रदोषादिगुणैर्युते । केवलं वापि ये कुर्य्युः सोमवारे शिवार्च्चनम् । न तेषां विद्यते किञ्चिदिहामुत्र च दुर्लभम् ॥ उपोषितः शुचिर्भूत्वा सोमवारे जितेन्द्रियः । वैदिकैर्लौकिकैर्व्वापि विधिवत्पूजयेच्छिवम् ॥ ब्रह्मचारी गृहस्थो वा कन्या वापि सभर्त्तृका । विभर्त्तृका वा संपूज्य लभते वरमीप्सितम् ॥ * ॥ तत्राहं कथयिष्यामि कथां श्रोत्रमनोरमाम् । श्रुत्वा श्रुतधियः शम्भोर्भक्तिं कुर्व्वन्तु निश्चलाम् आर्य्यावर्त्ते नृपः कश्चिदासीद्धर्म्मभृतां वरः । चित्रवर्म्मेति विख्यातो धर्म्मराजो दुरात्मनाम् ॥ सोऽनुकूलः स्वपत्नीषु पुत्त्रमेकं न लब्धवान् । चिरेण प्रार्थितां लेभे कन्यामेकां मनोहराम् ॥ स एकदा जातकलक्षणज्ञा- नाहूय सर्व्वान् द्विजमुख्यवर्गान् कुतूहलेनापि निविष्टचेताः पप्रच्छ तस्या जनने विचारम् ॥ * ॥ अथ तं प्रावदत् कोऽपि बहुज्ञो द्विजसत्तमः । एका सीमन्तिनी मान्या कन्या तव महीपते ॥ अथान्योऽपि द्विजः प्राह धैर्य्यवानविशङ्कितः । एषा चतुर्द्दशे वर्षे वैधव्यं प्रतिपत्स्यति ॥ इत्याकर्ण्य वचस्तस्य वज्रनिर्घातनिष्ठुरम् । मुहूर्त्तमभवद्राजा चिन्ताव्याकुलमानसः ॥ सापि सिमन्तिनी बाला क्रमेण गतशैशवा । वैधव्यमात्मनो भावि सा शुश्राव सखीमुखात् ॥ परं निर्व्वेदमापन्ना तदाकर्ण्य शुचिस्मिता । याज्ञवल्क्यमुनेः पत्नों मैत्रेयीं पर्य्यपृच्छत ॥ मातस्त्वच्चरणाम्भोजं प्रपन्नाहं भयाकुला । सौभाग्यवर्द्धनं कर्म्म मम संशितुमर्हसि ॥ * ॥ इति प्रपन्नां नृपतेः कन्यामाह मुनेः सती । शरणं व्रज तन्वङ्गि पार्व्वतीं शिवसंयुताम् ॥ सोमवारे शिवं गौरीं पूजयस्व समाहिता । उपोषिता वा सुस्नाता विरजाम्बरधारिणी ॥ यतवाङ्निश्चलमतिः पूजां कृत्वा यथोचिताम् । ब्राह्मणान् भोजयित्वा च शिवं सम्यक् प्रसादय पापक्षयोऽभिषेकेण साम्राज्यं पीठपूजनात् । सौभाग्यमखिलं सौख्यं गन्धमाल्याक्षतार्च्चनात् धूपदानेन सौगन्ध्यं कान्तिर्द्वीपप्रदानतः । नैवेद्येन महाभोगी लक्ष्मीस्ताम्बूलदानतः ॥ धर्म्मार्थकाममोक्षाणां नमस्कारः प्रसाधनम् । अष्टैश्वर्य्यादिसिद्धीनां जप एव हि साधनम् ॥ होमेन सर्व्वकामानां समृद्धिरपि जायते । सर्व्वेषामेव देवानां तुष्टिर्ब्राह्मणभोजनात् ॥ इत्थमाराधय शिवं सोमवारे शिवामपि । प्राप्ता विपद्भिर्बहुभिर्दुःखैर्व्वा न विहन्यसे ॥ घोरात् घोरं प्रपन्नापि महाक्लेशं भयानकम् । शिवपूजाप्रभावेण तरिष्यति महद्भयम् ॥ * ॥ इत्थं सीमन्तिनी सम्यक् तन्निशम्य सतीमुखात् ययौ सापि वरारोहा राजपुत्त्री तथापि च ॥ इत्यादि स्कन्दपुराणे ब्रह्मोत्तरखण्डे सोमवार- वतमाहात्म्यम् ८ अध्यायः ॥
