सोमेश्वरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सोमेश्वरः, पुं, (सोमस्य ईश्वरः ।) काश्यां सोम- कर्त्तृकप्रतिष्ठितशिवः । यथा, -- “शिवरूपाधिष्ठितस्तु शिवरूपो गिरिः स्मृतः । सोमेन तत्र संस्थाप्य स्वनाम्ना लिङ्गमुत्तमम् ॥ वर्षाणान्तु सहस्रं वै स्वशापस्य निवृत्तये । ततः क्षयाद्विनिर्म्मुक्तस्तेजसा च परिप्लुतः ॥ स्वकं तेजोबलंप्राप्य तुष्टाव गिरिजापतिम् । सोमेश्वराच्च वरदमाविर्भूतं त्रियम्बकम् ॥” इति वाराहे सोमेश्वरादिलिङ्गमहिमावमुक्ति- क्षेत्रत्रिवेण्यादिमहिमनामाध्यायः ॥ (पीठ- स्थानविशेषः । यथा, देवीभागवते । ७ । ३० । ७३ । “सोमेश्वरे वरारोहा प्रभासे पुष्करावती ॥”)
