सौगन्धम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सौगन्धम्, क्ली, (सुष्ठु गन्धो यस्य । ततः स्वार्थे अण् ।) कत्तृणम् । यथा, -- “सौगन्धिकञ्च सौगन्धं रामकर्पूरके तृणे ॥” इति शब्दरत्नावली ॥ (पुं, सङ्करजातिविशेषः । यथा, महाभारते । १३ । ४८ । २२ । “चतुरो मागधी सूते क्रूरान्मायोपजीविनः । मांसं स्वादुकरं क्षीद्रं सौगन्धमिति विश्रुतम् ॥” शोभनगन्धयुक्ते, त्रि ॥
