सामग्री पर जाएँ

सौगन्धिकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सौगन्धिकः, पुं, (सौगन्धोऽस्यास्तीति । ठन् ।) गन्धकः । इत्यमरः । २ । ९ । १०२ ॥ सुगन्ध- व्यवहोरी । इति मेदिनी ॥ गन्धीति हिन्दी भाषा ॥ (श्लेष्मनिमित्तकक्रिमिविशेषः । यथा, चरके विमानस्थाने ७ अध्याये । “तेषां त्रिवि- धानां श्लेष्मनिमित्तानां क्रिमीणां नामानि अन्त्रादा उदरादा हृदयादाश्चुरवो दर्भपुष्पाः सौगन्धिका महागुदाश्च इति ॥”)

"https://sa.wiktionary.org/w/index.php?title=सौगन्धिकः&oldid=178754" इत्यस्माद् प्रतिप्राप्तम्