सामग्री पर जाएँ

सौगन्धिकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सौगन्धिकम्, क्ली, (सुगन्धोऽस्त्यस्येति । सुगन्ध + ठन् । ततः स्वार्थे अण् ।) कत्तृणम् । (अस्य पर्य्यायो यथा, -- “कत्तृणं रौहिषं देवजग्धं सौगन्धिकन्तथा । भूतिकं व्यामपौरञ्च श्यामकं धूमगन्धिकम् ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) कह्वारम् । इत्यमरः । १ । १० । ३६ ॥ पद्म- रागमणिः । इति मेदिनी ॥ नीलोत्पलम् । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो यथा, -- “इन्दीवरं कुवलयं पद्मं नीलोत्पलं स्मृतम् । सौगन्धिकं शतदलमब्जं कमलमुच्यते ॥” इति गारुडे २०८ अध्यायः ॥ यथा, महाभारते । ३ । १५४ । २ । अपश्यत्तत्र पाञ्चाली सौगन्धिकमनुत्तमम् । अनिलोढमितो नूनं सा बहूनि परीप्सति ॥”)

"https://sa.wiktionary.org/w/index.php?title=सौगन्धिकम्&oldid=178752" इत्यस्माद् प्रतिप्राप्तम्