सौदायिकम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सौदायिकम्, त्रि, (सुदायेभ्यः पितृमातृभर्त्तृकुल- सम्बन्धिभ्य आगतमिति । सुदाय + ठञ् ।) पितृ- मातृभर्त्तृकुललब्धस्त्रीधनम् । यथा, कात्यायनः । “ऊढया कन्यया वापि पत्युः पितृगृहेऽथवा । भर्त्तुः सकाशात् पित्रोर्व्वा लब्धं सौदायिकं स्मृतम् ॥ सौदायिकं धनं प्राप्य स्त्रीणां स्वातन्त्र्यमिष्यते यस्मात् तदानृशंस्याथं तैर्दत्तं तत्प्रजीवनम् ॥ सौदायिके सदा स्त्रीणां स्वातन्त्र्यं परिकीर्त्तितम् विक्रये चैव दाने च यथेष्टं स्थावरेष्वपि ॥” सुदायेभ्यः पितृमातृभर्त्तृकुलसम्बन्धिभ्यो लब्धं सौदायिकम् । आनृशंस्यमनैष्ठुर्य्यम् । इति दायतत्त्वम् ॥
