सौदासः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सौदासः, पुं, इक्ष्वाकुवंशीयः अयोध्याधिपतिः । अस्य नामान्तरम् । कल्माषपादः १ मित्र- सहः २ । इति पुराणम् ॥ (यथा, महा- भारते । १ । १२२ । २१ । “सौदासेन च रम्भोरु नियुक्ता पुत्त्रजन्मनि । मदयन्ती जगामर्षिं वशिष्ठमिति नः श्रुतम् ॥” अस्य विशेषविवरणन्तु कल्माषपादशब्दे द्रष्ट- व्यम् ॥)
