सौप्तिकम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सौप्तिकम्, क्ली, (सुप्तौ सुप्तिकाले भवम् । सुप्ति + ठञ् ।) रात्रियुद्धम् । तत्पर्य्यायः । निशा- रणम् २ । इति जटाधरः ॥ रात्रिमारणम् ३ । इति त्रिकाण्डशेषः ॥ (यथा, महाभारते । १० । ४ । ३३ । “अहन्तु कदनं कृत्वा शत्रूणामद्य सौप्तिके । ततो विश्रमिता चैव स्वप्ता च विगतज्वरः ॥”) महाभारतीयपर्व्वविशेषः । यथा, -- “आदिः सभावनविराटमथोद्यमश्च भीष्मो गुरू रविजमद्रवसौप्तिकञ्च । स्त्रीपर्व्व शान्तिरनुशासनमश्वमेध- व्यासाश्रमो मुषलयानदिवावरोहः ॥” इति महाभारतटीका ॥ सुप्तसम्बन्धिनि, त्रि ॥
