सामग्री पर जाएँ

सौभद्रः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सौभद्रः, पुं, (सुभद्राया अपत्यं पुमानिति । सुभद्रा अण् ।) सुभद्रापुत्त्रः । स चाभिमन्युः । यथा, -- “सौभद्रो द्रौपदेयाश्च सर्व्व एव महारथाः ॥” इति भगवद्गीतायां १ अध्यायः ॥ (सुभद्रा प्रयोजनमस्य । “संग्रामे प्रयोजन- योद्धृभ्यः ।” ४ । ३ । ५६ । इति अण् । संग्राम- विशेषः । सुभद्रामधिकृत्य कृतो ग्रन्थः । “अधि- कृत्यकृते ग्रन्थे ।” ४ । ४ । ८७ । इत्यण् । ग्रन्थ- विशेषः । इति काशिका ॥ * ॥ तीर्थविशेषे, क्ली । यथा महाभारते । १ । २१७ । ३ -- ४ । “अगस्त्यतीर्थं सौभद्रं पौलोमञ्च सुपावनम् । कारन्धमं प्रसन्नञ्च हयमेधफलञ्च तत् ॥ भारद्वाजस्य तीर्थन्तु पापप्रशमनं महत् । एतानि पञ्चतीर्थानि ददर्श कुरुसत्तमः ॥”) सुभद्रासम्बन्धिनि, त्रि ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सौभद्रः [saubhadrḥ] सौभद्रेयः [saubhadrēyḥ], सौभद्रेयः Epithets of Abhimanyu, son of Subhadrā; सौभद्रश्च महाबाहुः Bg.1.18.

"https://sa.wiktionary.org/w/index.php?title=सौभद्रः&oldid=249312" इत्यस्माद् प्रतिप्राप्तम्