सौरः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सौरः, पुं, (सूरस्य सूर्य्यस्यायमिति । सूर + अण् । शनैश्चरः । इत्यमरटीकायां भरतः । १ । ३ । २६ ॥ (यथा, बृहत्संहितायाम् । १० । ४ । “बहुलास्थे पीड्यन्ते सौरेऽम्न्युपजीविन- श्चमूपाश्च ॥”) तुम्बुरुवृक्षः । इति राजनिर्घण्टः ॥ सूर्य्यैक- राशिभोगावच्छिन्नमासादिः । यथा, विष्णु- धर्म्मोत्तरम् । “आदित्यराशिभोगेन सौरो मासः प्रकीर्त्तितः ॥ विवाहादिकर्म्मसु सौरमासस्योत्तेखः कर्त्तव्यः । यथा, पितामहः । “आब्दिके पितृकृत्ये च मासश्चन्द्रमसः स्मृतः । विवाहादौ स्मृतः सौरो यज्ञादौ सावनो मतः ॥” विवाहादावित्यत्रादिपदं यात्राग्रहचारपरम् । यत्कर्म्म सूर्य्यभोग्यराश्युल्लेखेन विहितं यच्च विशेष्योदगयनादिविहितं तत्परञ्च । अयनस्य सौरमासघटितत्वेन वक्ष्यमाणत्वात् । तच्च चूडोपनयनादि । विष्णुधर्म्मोत्तरम् । “अध्वायनञ्च ग्रहचारकर्म्म सौरेण मानेन सदाध्यवस्येत् । सत्रास्त्यपास्यान्यथ सावनेन लौक्यञ्च यत् स्याद्व्यवहारकर्म्म ॥” अध्वायनं अध्वगमनं यात्रति यावत् । इति ज्योतिस्तत्त्वम् ॥ * ॥ सूर्य्योपासकः । (यथा, महानिर्व्वाणतन्त्रे । ३ । १४२ । “शाक्ताः शैवा वैष्णवाश्च सौरा गाणपतास्तथा । विश विप्रेतराश्चैव सर्व्वेऽप्यत्राधिकारिणः ॥”) गुरुविशेषः । यथा, -- “गौडाः शाल्वोद्भवाः सौरा मागधाः केरला- स्तथा । कोशलाश्च दशार्णाश्च गुरवः सप्त मध्यमाः ॥” इति तन्त्रसारे १ परिच्छेदः ॥ (उपपुराणविशेषे, क्ली । यथा, देवीभागवते । १ । ३ । १५ । “सौरं पराशरप्रोक्तमादित्यञ्चातिविस्तरम् ॥” सूर्य्यसम्बन्धिनि, त्रि । यथा, -- “शैवानि गाणपत्यानि शाक्तानि वैष्णवानि च । साधनानि च सौराणि चान्यानि यानि कानि च श्रुतानि तानि देवेश तद्वक्त्रान्निःसृतानि च ॥” इति तन्त्रसारे ३ परिच्छेदः ॥ * ॥ यथा च हरिवंशे भविष्यपर्व्वणि । ४९ । ५२ । “यदा सौरं वपुरिति स्मर्त्ता स्यां जगतीपते । तदा तद्भावनायोगात् सूर्य्य एव विराजसे ॥”)
