सौरभम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सौरभम्, क्ली, (सौरभमस्यास्तीति । अच् ।) कुङ्कुमम् । इति त्रिकाण्डशेषः ॥ वोलम् । इति राजनिर्घण्टः ॥ सद्गन्धः । सुरभेर्भाव इत्यर्थे ष्ण(अण्) प्रत्ययेन निष्पन्नम् ॥ (यथा, नैषधे । २ । ९२ । “सममेणमदैर्यदापणे तुलयन् सौरभलोभनिश्चलम् । पणिता न जनारवैरवै- दपि गुञ्जन्तमलिं मलीमसम् ॥” तद्विशिष्टे, त्रि । यथा, भागवते । ८ । २ । ८ । “सरित्सरोभिरच्छोदैः पुलिनैर्मणिबालुकैः । देवस्त्रीमज्जनामोदसौरभाम्ब्रनिलैर्युतः ॥”)
