सौरमासः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सौरमासः, पुं, (सौरो मासः ।) सूर्य्यैकराशि- भोगावच्छिन्नकालः । यथा, ब्रह्मसिद्धान्ते । “एकराशौ रविर्यावत्कालं मासः स भास्करः ॥” इति मलमासतत्त्वम् ॥ अपि च । “अथ षड्भिः सौरमासैरयनं परिकीर्त्तितम् ॥” इति शब्दरत्नावली ॥ अस्यान्यद्विवरण सौरशब्दे द्रष्टव्यम् ॥
