सामग्री पर जाएँ

सौवर्च्चल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सौवर्च्चलम्, क्ली, (सुवर्च्चले देशे भवम् । सुवर्च्चल + अण् ।) सुवर्च्चलदेशभवलवणम् । सच्लवण इति भाषा । तत्पर्य्यायः । अक्षम् २ रुचकम् ३ । इत्यमरः । २ । ९ । ४२ ॥ कृष्णलवणम् ४ । इति रत्नमाला ॥ तिलकम् ५ हृद्यगन्धकम् ६ रुच्यम् ७ कौद्रविकम् ८ । इति राजनिर्घण्टः ॥ अस्य गुणाः । रुचिकारित्वम् । उष्णवीर्य्यत्वम् । निर्म्मलत्वम् । कटुत्वम् । गुल्मशूलविबन्धना- शित्वम् । किञ्चित्पित्तकरत्वम् । लघुत्वञ्च । इति राजवल्लभः ॥ अपि च । “सौवर्च्चलं लघु क्षारं कटूष्णं गुल्मशूलनुत् । ऊर्द्ध्ववातामशूलार्त्तिविबन्धारोचकान् जयेत् ॥” इति राजनिर्घण्टः ॥ अन्यच्च । “सौवर्च्चलं स्याद्रुचकमक्ष्यं पाक्यञ्च तन्मतम् । रुचकं रोचनं भेदि दीपनं पाचनं परम् ॥ सस्नेहवातनुन्नातिपित्तलं विशदं लघु । उद्गारशुद्धिदं सूक्ष्मं विबन्धानाहशूलहृत् ॥” इति भावप्रकाशः ॥ सर्ज्जिकाक्षारः । इत्यमरः । २ । ९ । १०९ ॥ सुवर्च्चलासम्बन्धिनि, त्रि ॥

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सौवर्च्चल¦ n. (-लं)
1. Sachal-salt.
2. Natron, alkali. f. (-ली) Coming from the Suvarchala country. E. सुवर्च्चल a district, and अण् aff.

"https://sa.wiktionary.org/w/index.php?title=सौवर्च्चल&oldid=250243" इत्यस्माद् प्रतिप्राप्तम्