सौविदल्लः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सौविदल्लः, पुं, (सुष्ठु विदन्तं विज्ञमपि लाति वश- वर्त्तिनं करोतीति । सुविदत् + ला + कः । ततः स्वार्थे अण् ।) अन्तपुररक्षकः । (यथा, कथा- सरित्सागते । ३९ । २८ । “तदन्यस्य न लाभोऽस्ति सौविदल्लाभिरक्षिते । अन्तःपुरेऽत्र पुंसो यदतोऽसौ तेन संगता ॥”) तत्पर्य्यायः । कञ्चुकी २ स्थापत्यः ३ सौविदः ४ । इत्यमरः । २ । ८ । ८ ॥ स्थपतिः ५ सुविदः ६ । इति तट्टीका ॥ चत्वारि महल्लरक्षके । बहिः सञ्चरन्तीनां पुरस्त्रीणां प्रेक्षकपुरुषान्तरवार- णाय राज्ञा स्त्र्यगारे ये वेत्रधरा नियुक्तास्ते बहिर्महल्लकाः सौविदल्लादिशब्दवाच्याः । शोभनं विदन्ति सुविदः पण्डिताः क्विप् तान् अतति सत्येन गच्छति सुविदत् भूपालः तं लाति सुविदल्लं अन्तःपुरं हनजनाति डः ले लस्तोरिति लः तत्र नियुक्ता इति ढघे कादिति ष्णे सौविदल्लाः । इति भरतः ॥
