सौहार्द्द
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सौहार्द्दम्, क्ली, (सुहृदः सुहृदयस्य वा भावः कर्म्म वा । सुहृत् सुहृदय वा + “हायनान्तयुवा- दिभ्योऽण् ।” ५ । १ । १३० । इत्यण् । हृदयस्य हृदादेशः । “हृद्भगसिन्ध्वन्ते पूर्व्वपदस्य च ।” ७ । ३ । १९ । इति उभयपदवृद्धिः ।) सुहृदो भावः । तत्पर्य्यायः । सख्यम् २ सौहृदम् ३ साप्तपदीनम् ४ मैत्री ५ अजर्य्यम् ६ सङ्गतम् ७ इति हेमचन्द्रः ॥ (यथा, महाभारते । १ । ७७ । ११ । “सौहार्द्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम् । न मामर्हसि धर्म्मज्ञ त्यक्तुं भक्तामनागसम् ॥”)
सौहार्द्दः, पुं, (सुहृदोऽपत्यमिति । सुहृद् + अण् । सुहृत्पुत्त्रः । इति केचित् ॥
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सौहार्द्द¦ n. (-र्द्दं) Friendship. m. (-र्द्दः) The son of a friend. E. सुहृद् a friend, अण् aff., both vowels changed; also सौहार्द्य। E. See the next.
