सौहृदम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सौहृदम्, क्ली, (सुहृदः कर्म्म भावो वा । सुहृत् + अण् ।) सख्यम् । सौहार्द्दम् । इति हेमचन्द्रः ॥ तस्य प्राशस्त्यं यथा, -- “तद्भुज्यते यद्द्विजभुक्तशषं स बुद्धिमान् यो न करोति पापम् । तत् सौहृदं यत् क्रियते परोक्षे दम्भैर्विना यः क्रियते स धर्म्मः ॥” इति गारुडे ११५ अध्यायः ॥ स्कद, द ङ आप्लवे । उद्धृतौ । उत्प्लुत्य गत्याम् इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०- सक० च-सेट् ।) आद्यस्वरी । इ, स्कन्द्यते । ङ, स्कन्दते चिस्कन्दिषते । पञ्चभस्वरीति धातु- प्रदीपरामौ । स्कन्दते स्कुन्दते चापि षडाप्लवन- वाचिनः । इति भट्टमल्लोऽपि । चुस्कुन्दिषते । इति दुर्गादासः ॥
