सामग्री पर जाएँ

स्कन्धजः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्कन्धजः, पुं, (स्कन्धात् जायते इति । जन + डः ।) शल्लक्यादिः । यथा, हेमचन्द्रे । “पर्व्वयोनय इक्ष्वाट्या स्कन्धजाः शल्लकीमुखाः ॥” मुद्राङ्कितहेमचन्द्रे कन्दज इति पाठः ॥ (वटः अस्य पर्य्यायो यथा, -- “वटो रक्तफलः शृङ्गी न्यग्रोधः स्कन्धजो ध्रुवः । क्षीरी वैश्रवणावासो बहुपादो वनष्पतिः ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

"https://sa.wiktionary.org/w/index.php?title=स्कन्धजः&oldid=178952" इत्यस्माद् प्रतिप्राप्तम्