सामग्री पर जाएँ

स्कान्दम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्कान्दम्, क्ली, (स्कन्दस्येदमिति । स्कन्द + अण् ।) स्कन्दपुराणम् । यथा, -- “वाराहञ्च तथा स्कान्दं वामनं कूर्म्मसंज्ञकम् ।” इत्यादि नारदीयपुराणम् ॥ अस्य विवरणं पुराणशब्दे द्रष्टव्यम् ॥ स्कु, ग न ञ उद्धृतौ । आप्लावने । इति कवि- कल्पद्रुमः ॥ (क्र्या०-स्वा० च-उभ०-सक०-सेट् ।) ग ञ, स्कुनाति स्कुनीते । न ञ, स्कुनोति स्कुनुते । चुस्काव । उद्धृतिरुद्धरणम् । आप्ल- वने । इति प्राञ्चः । “स्कुनाति च स्कुनीते च स्कुनोत्याप्लवनऽपि च । स्कन्दते स्कुन्दते चापि षडाप्लवनवाचिनः ॥” इति भट्टमल्लः । आवरणे इति पाणिनीयाः । स्कुनाति शत्रुं बाणेन भटः आच्छादयतीत्यर्थः । इति रमा- नाथः । इति दुर्गादासः ॥

"https://sa.wiktionary.org/w/index.php?title=स्कान्दम्&oldid=178986" इत्यस्माद् प्रतिप्राप्तम्