स्खद
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्खद, म ष ङ विदारे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।) म स्खदयति । उपसर्गात् परस्य तु वा शम यम फण इत्या- दिना वा ह्रस्वः । प्रस्खदति प्रस्खादयति । अव परिवर्ज्जादुपसर्गात् परस्य घटादित्व नास्ति इति कातन्त्नाद्याः । तत्रैव अवस्थाने अप इति भीमः प्रस्खादयति अवस्खादयति परिस्खद- यति । अपपरिभ्यां परस्य घटादित्वं नास्तीति जीमराद्याः । अपस्खादयांत परिस्खादयति प्रस्खदयति । स्खद स्खदने इति प्राञ्चः । स्खदनं स्थैर्य्यमिति विलोचनरामौ । पाटनमिति गो- विन्दः । क्लेशोत्पादनमिति गोयीचन्द्रः । हिंसेति रमानाथः । इति दुर्गादासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्खद¦ विदारे दि॰ आ॰ सक॰ सेट्। स्खद्यते अस्खदिष्टघटादि॰ स्खदयति।
