स्खलनम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्खलनम्, क्ली, (स्खल + ल्युट् ।) पतनम् । तत्- पर्य्यायः । रिङ्गणम् २ । इत्यमरः । १ । ७ । ३६ ॥ रिङ्खणम् ३ । इति हेमचन्द्रः ॥ (यथा, सुश्रुते । ४ । २४ । “श्रमस्खलनदोषघ्नं स्थविरे च प्रशस्यते । सत्त्वोत्साहबलस्थैर्य्यधैर्य्यवीर्य्यविवर्द्धनम् ॥” अभिघातः । इति मल्लिनाथः ॥ यथा, माघे । ९ । ५२ । “निजपाणिपल्लवतलस्खलना- दभिनासिकाविवरमुत्पतितैः । अपरा परीक्ष्य शनकैर्मुमुदे मुखवासमास्य कमलश्वसनैः ॥” उच्चारणम् । यथा, साहित्यदर्पणे । ३ । २१९ । “उत्स्वप्नायितभोगाङ्कगोत्रस्खलनसम्भवा ॥” तथाच भागवते । ५ । ३ । १२ । “अथ कथञ्चित् स्खलनक्षुत्पतनजृम्भनदुरवस्था- नादिषु विवशानां नः स्मरणाय ज्वरमरण- दशायामपि सकलकश्मलनिरसनानि तव गुण- कृतनामधेयानि वचनगोचराणि भवन्तु ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्खलनम् [skhalanam], [स्खल्-भावे ल्युट्]
Stumbling, slipping, tripping, falling down.
Tottering.
Deviating from the right course.
Blundering, error, mistake.
Failure, disappointment, unsuccessfulness.
Stammering, blundering in speech or pronunciation, faltering.
Trickling, dripping.
Dashing against, clashing, collision; स्खलनमुखरभूरिस्रोतसो निर्झरिण्यः U.2. 2; Mv.5.4.
Mutual striking or rubbing together.
Discharge, emission (of semen); Kull. on Ms.5.63.
