स्खलितम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्खलितम्, क्ली, (स्खल + क्तः ।) कूटयुद्धादिना युद्धमर्य्यादायाः स्खलनम् । तत्पर्य्यायः । छलम् । २ । इत्यमरः । २ । ८ । १०८ ॥ भ्रंशः । त्रि, चलितम् । इति मेदिनी । ते, १६४ ॥ (यथा, आर्य्यासप्तशत्याम् । ६७२ । “सौधगवाक्षगतापि हि दृष्टिस्तं स्थितिकृत- प्रयत्नमपि । द्विमगिरिशिखरस्खलिता गङ्गेवैरावतं हरति ॥”)
