सामग्री पर जाएँ

स्तम्भन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्तम्भनम्, क्ली, (स्तम्भ + ल्युट् ।) जडीकरणम् । यथा, वगलामुखीस्तोत्रे । “दुष्टस्तम्भनमुग्रविघ्नशमनं दारिद्रविद्रावणम् ॥” षट्कर्म्मान्तर्गताभिचारकर्म्मविशेषः । यथा, -- “उलूककाकयोः पक्षौ गृहीत्वा मन्त्रवित्तमः । आलिख्य वै शरावे निशायाञ्च साध्याक्षर- संपुटितम् ॥ मन्त्रं स्थापितपवनं सहस्रजप्तं चतुस्पथे निखनेत् स्तम्भनमेतदवश्यं भविता जगताञ्च नात्र सन्देहः ॥” स्थापितपवनं कृतप्राणप्रतिष्ठम् । “कृत्वा प्रतिकृतिमथवा श्मशानाङ्गारकेशशववसनजाम् । सम्यगधिष्ठितपवनां हृद्गतनाम्नीं समन्त्रललाटाम् ॥ वसनाधिष्ठितपवनां सहस्रजप्तां तदुल्कया वसनाम् । दग्धां कृत्वा निखनेत् श्मशानदेशे सपदि वाक्स्तम्भः ॥ आलिण्य चेष्टकायुगले मन्त्रं सनामपुटितम् । निशया निशीथकाले सहस्रजप्तं प्रतिष्ठित- प्राणम् ॥ बन्धनभतितीक्ष्णतरं स्तम्भनमतितीक्ष्णाम्बु- निःक्षिप्तम् । लिखितमन्त्रचितामयकीलकं, सहितकर्म्म सनाम समारुतम् ॥ कृतजपं त्रिसहस्रकसंख्यया पथि खनेदथ याननिवारणम् । विहितनिम्बतरौ रिपुनामयुतं मनुमिमं निशया कृतनामकम् । नवसहस्रजपादिसुसाधितं पथि खनेदथ सैन्यनिरोधनम् ॥” इति स्तम्भनम् ॥ इति फेत्कारिणीतन्त्रे ५ पटलः ॥ * ॥ अथाग्निस्तम्भनम् । “मालूरस्य रसं गृह्य जलौकां तत्र पेषयेत् । हस्तौ तु लेपयेत्तेन अग्निस्तम्भनमुत्तमम् ॥ शाल्मलीरसमादाय खरमूत्रे निधाय तम् । अग्न्यागारे क्षिपेत्तेन अग्निस्तम्भनमुत्तमम् ॥ वायसी उदरं गृह्य मण्डूकवसया सह । गुडिकां कारयेत्तेन ततोऽग्नौ प्रक्षिपेद्बशी ॥ एवमेतत्पयोगेन अग्निस्तम्भनमुत्तमम् ॥ रक्तपाटलमूलन्तु अवष्टब्धञ्च मूलकैः । दिव्यं स्तम्भयते क्षिप्रं पयः पिण्डं जलान्तकम् ॥ मुण्डीतकवचाकुष्ठं मरीचं नागरं तथा । चर्व्वित्वा च इमं सद्यो जिह्वया ज्वलनं लिहेत् गोरोचनां भृङ्गराजं चूर्णीकृत्य घृतं समम् । दिव्यस्तम्भश्च पीत्वा स्यात् मन्त्रे णानेन वै तथा ओ~ ह्यं अग्निस्तम्भनं कुरु ॥ ओ~ नमो भगवते जलं स्तम्भय स्तम्भय सं समं सके कके कचर । जलस्तम्भनमन्त्रोऽयं जलं स्तम्भयते शिव ॥” इति गारुडे पूव्वखण्डे । १८६ । ११ -- १८ ॥ प्रकारान्तरं षट्कर्म्मशब्दे द्रष्टव्यम् ॥

स्तम्भनः, पुं, (स्तम्भयतीति । स्तम्भ + णिच् + ल्युः ।) कामदेवस्य पञ्चवाणान्तर्गत-वाण-विशेषः । यथा, -- “उन्मादनः शोषणश्च तापनस्तम्भनस्तथा । सम्मोहनश्च पञ्चैते विख्याताः कामशायकाः ॥” इति जटाधरः ॥ (स्तम्भके, त्रि । यथा, सुश्रुते । १ । ४२ । “कषायः संग्राहको रोपणः स्तम्भनः शोधनो लेखनः शोषणः पीडनः क्लेदोपशोषणश्चेति ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्तम्भन नपुं।

कामबाणः

समानार्थक:अरविन्द,अशोक,चूत,नवमल्लिका,नीलोत्पल,उन्मादन,तापन,शोषण,स्तम्भन,सम्मोहन

1।1।26।5।4

शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः। पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः। अरविन्दमशोकं च चूतं च नवमल्लिका। नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः। उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा। संमोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः॥

स्वामी : कामदेवः

सम्बन्धि1 : कामदेवः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अलौकिकाचलनिर्जीववस्तु

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्तम्भन¦ पु॰ स्तम्भयति स्तम्भ--णिच् ल्यु। कन्दर्पस्य पञ्चसुवाणेषु मध्ये

१ वाणभेदे जटा॰। भवे ल्युट्।

२ जडीकरणेन॰। करणे ल्युट्। षट्कर्मान्तगते तन्त्रोक्ते

३ अभिचारकमेभेदे

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्तम्भन¦ n. (-नं)
1. Stopping, hindering, obstruction.
2. Suppression of any of the bodily faculties by magical incantations.
3. Stopping the flow of blood, &c.
4. Any article so employed, a styptic, an astringent.
5. Stunning, benumbing.
6. Propping, supporting. m. (-नः) An epithet of one of the five arrows of KA4MADE4VA. E. ष्टभि to stop, aff. युच् or ल्युट् |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्तम्भनम् [stambhanam], [स्तम्भयति स्तम्भ्-णिच् ल्युट्]

Stopping, obstructing, hindering, arresting, suppressing, restraining; लोलोल्लोलक्षुभितकरणोज्जृम्भणस्तम्भनार्थम् U.3.36.

Paralysing, benumbing, stupefying.

Quieting, composure; पराङ्मुखे$पि दैवे$त्र कृत्यं कार्यं विपश्चिता । आत्मदोष- विनाशाय खचित्तस्तम्भनाय च ॥ Pt.1.36.

Making firm or stiff, fixing firmly.

Propping, supporting.

Stopping the flow of blood.

Anything employed as an astringent.

A particular magical art or faculty; see स्तम्भ (1). -नः N. of one of the five arrows of Cupid.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्तम्भन mf( ई)n. stiffening , making rigid or immovable , paralyzing Ka1v. HParis3.

स्तम्भन mf( ई)n. stopping , arresting , checking , restraining MBh. R.

स्तम्भन mf( ई)n. styptic , astringent Sus3r.

स्तम्भन m. " paralyzer " , N. of one of the five arrows of काम-देवCat.

स्तम्भन n. the act of turning into a pillar(See. रम्भा-स्त्)

स्तम्भन n. strengthening , supporting Ka1v. Pan5car.

स्तम्भन n. becoming stiff or rigid Sus3r.

स्तम्भन n. making stiff or rigid , paralysing Va1s. Ba1lar.

स्तम्भन n. a means of making stiff or rigid Hcat.

स्तम्भन n. stopping , arresting (also by magical means) MBh. VP.

स्तम्भन n. stopping flow of blood etc.

स्तम्भन n. a styptic or astringent Car.

स्तम्भन n. a partic. magical art or faculty(See. under स्तम्भand See. जल-स्तम्भन).

"https://sa.wiktionary.org/w/index.php?title=स्तम्भन&oldid=251697" इत्यस्माद् प्रतिप्राप्तम्