सामग्री पर जाएँ

स्तम्भनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्तम्भनः, पुं, (स्तम्भयतीति । स्तम्भ + णिच् + ल्युः ।) कामदेवस्य पञ्चवाणान्तर्गत-वाण-विशेषः । यथा, -- “उन्मादनः शोषणश्च तापनस्तम्भनस्तथा । सम्मोहनश्च पञ्चैते विख्याताः कामशायकाः ॥” इति जटाधरः ॥ (स्तम्भके, त्रि । यथा, सुश्रुते । १ । ४२ । “कषायः संग्राहको रोपणः स्तम्भनः शोधनो लेखनः शोषणः पीडनः क्लेदोपशोषणश्चेति ॥”)

"https://sa.wiktionary.org/w/index.php?title=स्तम्भनः&oldid=179066" इत्यस्माद् प्रतिप्राप्तम्