सामग्री पर जाएँ

स्तम्भनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्तम्भनम्, क्ली, (स्तम्भ + ल्युट् ।) जडीकरणम् । यथा, वगलामुखीस्तोत्रे । “दुष्टस्तम्भनमुग्रविघ्नशमनं दारिद्रविद्रावणम् ॥” षट्कर्म्मान्तर्गताभिचारकर्म्मविशेषः । यथा, -- “उलूककाकयोः पक्षौ गृहीत्वा मन्त्रवित्तमः । आलिख्य वै शरावे निशायाञ्च साध्याक्षर- संपुटितम् ॥ मन्त्रं स्थापितपवनं सहस्रजप्तं चतुस्पथे निखनेत् स्तम्भनमेतदवश्यं भविता जगताञ्च नात्र सन्देहः ॥” स्थापितपवनं कृतप्राणप्रतिष्ठम् । “कृत्वा प्रतिकृतिमथवा श्मशानाङ्गारकेशशववसनजाम् । सम्यगधिष्ठितपवनां हृद्गतनाम्नीं समन्त्रललाटाम् ॥ वसनाधिष्ठितपवनां सहस्रजप्तां तदुल्कया वसनाम् । दग्धां कृत्वा निखनेत् श्मशानदेशे सपदि वाक्स्तम्भः ॥ आलिण्य चेष्टकायुगले मन्त्रं सनामपुटितम् । निशया निशीथकाले सहस्रजप्तं प्रतिष्ठित- प्राणम् ॥ बन्धनभतितीक्ष्णतरं स्तम्भनमतितीक्ष्णाम्बु- निःक्षिप्तम् । लिखितमन्त्रचितामयकीलकं, सहितकर्म्म सनाम समारुतम् ॥ कृतजपं त्रिसहस्रकसंख्यया पथि खनेदथ याननिवारणम् । विहितनिम्बतरौ रिपुनामयुतं मनुमिमं निशया कृतनामकम् । नवसहस्रजपादिसुसाधितं पथि खनेदथ सैन्यनिरोधनम् ॥” इति स्तम्भनम् ॥ इति फेत्कारिणीतन्त्रे ५ पटलः ॥ * ॥ अथाग्निस्तम्भनम् । “मालूरस्य रसं गृह्य जलौकां तत्र पेषयेत् । हस्तौ तु लेपयेत्तेन अग्निस्तम्भनमुत्तमम् ॥ शाल्मलीरसमादाय खरमूत्रे निधाय तम् । अग्न्यागारे क्षिपेत्तेन अग्निस्तम्भनमुत्तमम् ॥ वायसी उदरं गृह्य मण्डूकवसया सह । गुडिकां कारयेत्तेन ततोऽग्नौ प्रक्षिपेद्बशी ॥ एवमेतत्पयोगेन अग्निस्तम्भनमुत्तमम् ॥ रक्तपाटलमूलन्तु अवष्टब्धञ्च मूलकैः । दिव्यं स्तम्भयते क्षिप्रं पयः पिण्डं जलान्तकम् ॥ मुण्डीतकवचाकुष्ठं मरीचं नागरं तथा । चर्व्वित्वा च इमं सद्यो जिह्वया ज्वलनं लिहेत् गोरोचनां भृङ्गराजं चूर्णीकृत्य घृतं समम् । दिव्यस्तम्भश्च पीत्वा स्यात् मन्त्रे णानेन वै तथा ओ~ ह्यं अग्निस्तम्भनं कुरु ॥ ओ~ नमो भगवते जलं स्तम्भय स्तम्भय सं समं सके कके कचर । जलस्तम्भनमन्त्रोऽयं जलं स्तम्भयते शिव ॥” इति गारुडे पूव्वखण्डे । १८६ । ११ -- १८ ॥ प्रकारान्तरं षट्कर्म्मशब्दे द्रष्टव्यम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्तम्भनम् [stambhanam], [स्तम्भयति स्तम्भ्-णिच् ल्युट्]

Stopping, obstructing, hindering, arresting, suppressing, restraining; लोलोल्लोलक्षुभितकरणोज्जृम्भणस्तम्भनार्थम् U.3.36.

Paralysing, benumbing, stupefying.

Quieting, composure; पराङ्मुखे$पि दैवे$त्र कृत्यं कार्यं विपश्चिता । आत्मदोष- विनाशाय खचित्तस्तम्भनाय च ॥ Pt.1.36.

Making firm or stiff, fixing firmly.

Propping, supporting.

Stopping the flow of blood.

Anything employed as an astringent.

A particular magical art or faculty; see स्तम्भ (1). -नः N. of one of the five arrows of Cupid.

"https://sa.wiktionary.org/w/index.php?title=स्तम्भनम्&oldid=251707" इत्यस्माद् प्रतिप्राप्तम्