सामग्री पर जाएँ

स्तवकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्तवकः, पुं, (तिष्ठतीति । स्था + “स्थः स्तोऽम्ब- जवकौ ।” उणा० ४ । ९६ । इति अवकः धातोश्च स्तादेशः ।) गुच्छकः । इत्यमरः । २ । ४ । १६ ॥ “द्वे स्तवके थलो इति ख्याते बहुभिः पुष्पैः फलैर्व्वा संवाधः पल्लवग्रन्थिः गुच्छः । गूयते ध्वन्यते भ्रमरैरत्र गुच्छः । गु घु ङ ङ ध्वनौ नाम्नीति छक् । ‘पुष्पादिस्तवके गुच्छो मुक्ताहारकलापयोः ।’ इति चवर्गान्तेषु रन्तिदेवः ॥ ‘स्यात् गुच्छः स्तवके स्तम्बे हारभेदकलापयोः ॥’ इति चवर्गद्वितीयान्ते मेदिनी ॥ स्वार्थेके गुच्छकः गुत्सकः इति च पठन्ति । तदा वुध्यति वेष्टते इति गोधन्ते क्रीडन्ति भ्रमरा अत्रेति वा गुत्सः । गुध्य वेष्टे गुथ ङ क्रीडे इत्यस्माद्वा नाम्नीति सः । स्वार्थे कः गुत्सकः । ‘स्तवके हारभेदे च गुत्सः स्तम्बे च कीर्त्तितः ॥’ इति दन्त्यान्तेषु रुद्रः । ‘गुत्सः स्यात् स्तवके स्तम्बे हारभिद्ग्रन्थि- पर्णयोः ।’ इति दन्त्यसान्तेषु मेदिनी । ‘मुकुरः कुट्मलश्चापि स्तवको गुत्सकाविति ॥’ इति हडडः । स्तूयते इति स्तवकः । ष्टु ञ ल स्तुतौ अल् स्तवः स्वार्थे अभिधानात् नित्यकः । इति भरतः ॥ * स्तुतिः । इतिविश्वः ॥ ग्रन्थपरिच्छेदः । समूहः । इति केचित् ॥ स्तवकारके, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=स्तवकः&oldid=179074" इत्यस्माद् प्रतिप्राप्तम्