सामग्री पर जाएँ

स्तुतः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्तुतः, त्रि, (स्तु + क्तः ।) स्तुतिविषयः । तत्- पर्य्यायः । ईलितः २ शस्तः ३ पणायितः ४ पनायितः ५ प्रणुतः ६ पणितः ७ पनितः ८ अपिगीर्णः ९ वर्णितः १० अभिष्टुतः ११ । इत्य- मरः । ३ । २ । ११० ॥ गीर्णः १२ ईडितः १३ । इति शब्दरत्नावली ॥ नुतः १४ । इति जटाधरः ॥ (यथा, महाभारते । १२ । २८४ । १८ । “नमः स्तुताय स्तुत्याय स्तूयमानाय वै नमः ॥”)

"https://sa.wiktionary.org/w/index.php?title=स्तुतः&oldid=179088" इत्यस्माद् प्रतिप्राप्तम्