सामग्री पर जाएँ

स्तेयम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्तेयम्, क्ली, (स्तेनस्य भावः कर्म्म वा । स्तेन + “स्तेनाद्यन्नलोपश्च ।” ५ । १ । १२५ । इति यत् । नलोपश्च) चौर्य्यम् । तत्तु चौरस्य भावः तस्य कर्म्म च इत्यमरभरतौ । २ । १० । २५ ॥ तस्य लक्षणं यथा, प्रायश्चित्त्वविवेके । “प्रत्यक्षं वा परोक्षं वा रात्रौ वा यदि वा दिवा यत् परद्रव्यहरणं स्तेयं तत् परिकीर्त्तितम् ॥” तत्करणे नरकं प्रतिप्रसवञ्च यथा, -- व्यासोवाच । “न हिंस्यात् सर्व्वभूतानि नानृतञ्च वदेत् क्वचित् नाहितं नाप्रियं वाक्यं न स्तेनः स्यात् कदाचन तृणं वा यदि वा शाकं मृदं वा जलमेव वा । परस्यापहरन् जन्तुर्नरकं प्रतिपद्यते ॥ न राज्ञां प्रतीगृह्णीयान्न शूद्रपतितादपि । न चान्यस्मादशक्तश्च निन्दितान् वर्जयेद्बुधः ॥ नित्यं याचनको न स्यान्न पुनस्तत् प्रयाचयेत् ॥ न विषं विषमित्याहुर्ब्रह्यस्वं विषमुच्यते । देवस्वञ्चापि यत्नेन सदा परिहरेत्ततः ॥ पुष्पे शाकोदके काष्ठे तथा मूले फले तृणे । अदत्तादानमस्तेयं मनुराह प्रजापतिः ॥ ग्रहीतव्यानि पुष्पाणि देवार्च्चनविधौ द्विजैः । नैकस्मादेव नियतमननुज्ञाय केवलम् ॥ तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरेद्बुधः । धर्म्मार्थं केवलं ग्राह्यमन्यथा पतितो भवेत् ॥ तिलमुद्गयवादीनां मुष्टिर्ग्राह्या पथि स्थितैः । क्षुधार्त्तैर्नान्यथा विप्र विधिविद्भिरितिस्थितिः ॥” इति कौर्म्मे उपविभागे । १६ । १ -- १० ॥ स्ते यप्रायश्चित्तं यथा, -- “एतैर्व्रतैरपोह्यं स्यादेनो हिंसासमुद्भवम् । स्तेयदोषापहर्त्तॄणां व्रतानां श्रूयतां विधिः ॥ धान्यान्यधनचौर्य्याणि कृत्वा कामात् द्विजो- त्तम । स्वजातीयगृहादेव कृच्छार्द्धेन विशुध्यति ॥ मनुष्याणान्तु हरणे स्त्रीणां क्षेत्रगृहस्य च । कूपवापीजलानाञ्च शुद्धिश्चान्द्रायणं स्मृतम् ॥ द्रव्याणामप्लसाराणां स्तेयं कृत्वान्यवेश्मनः । चरेत् सान्तपनं कृच्छ्रं तत्पापपरिशुद्धये ॥ भक्षभोज्यापहरणे यानशय्यासनस्य तु । पुष्पमूलफलानाञ्च पञ्चगव्यं विशोधनम् ॥ तृणकाष्ठद्रुमाणान्तु पक्वान्नस्य गुडस्य तु । तैलचर्म्मामिषाणान्तु त्रिरात्रं स्यादभोजनम् ॥ मणिमुक्ताप्रबालानां ताम्रस्य रजतस्य तु । अयस्कांस्योपलानाञ्च द्वादशाहं कणान्नभुक् ॥ कार्पासकीटकोर्णानां द्विशफैकशफस्य च । पक्षिगन्धौषधानाञ्च रज्वाश्चैव त्र्यहं पयः ॥ एतैर्व्रतैर्व्यपोहेत पापं स्तेयकृतं बुधः ॥” इति मात्स्ये २०१ अध्यायः ॥ * ॥ स्तेयस्य दण्डविधिर्दण्डशब्दे द्रष्टव्यः । सुवर्ण- स्तेयप्रायश्चित्तं प्रायश्चित्तशब्दे द्रष्टव्यम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्तेयम् [stēyam], [स्तेनस्य भावः यत् नलोपः]

Theft, robbery; व्यावृत्तगतिरुद्याने कुसुमस्तेयसाध्वसात् Ku 2.35.

Anything stolen or liable to be stolen.

Anything private or secret.

"https://sa.wiktionary.org/w/index.php?title=स्तेयम्&oldid=252353" इत्यस्माद् प्रतिप्राप्तम्