सामग्री पर जाएँ

स्तोभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्तोभः, पुं, (स्तुभ + घञ् ।) सामावयवविशेषः । स तु गीतालापपूरणाक्षरः । स च त्रयोदशविधो यथा । अयं वावलोको हाउकारो १ वायुर्हा- इकार २ श्चन्द्रमाअथकारः ३ । आत्मेहकारो ४ ऽग्निरीकारः ५ आदित्य ऊकारः ६ । निहव एकारो ७ विश्वेदेवा औहोइकारः ८ प्रजा- पतिर्हिकारः ९ । प्राणः स्वरी १० ऽन्नं या ११ वाग्विराङ्निरुक्त १२ स्त्रयोदशः स्तोभः सञ्चरो हुंकारः १३ । दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतामेव~ साम्ना- मुपनिषदं वेदोपनिषदंवेद । इति छान्द्योग्योप- निषद्ब्राह्मणे प्रथमप्रपाठकः समाप्तः ॥ * ॥ अस्य भाष्यम् । भक्तिविषयोपासनं सामा- वयवसम्बन्धमित्यतः सामावयवान्तरस्तोभाक्षर- विषयाण्युपासनान्तराणि संहतान्युपदिश्यन्ते । अनन्तरं सामावयवसम्बन्धत्वाविशेषादयंवावाय मेव लोको हाउकारः स्तोभो रथन्तरे साम्नि प्रसिद्ध इयं वै रथन्तरमित्यस्मात् सम्बन्ध- सामान्याद्धाउकारः स्तोभोऽयं लोक इत्येव- मुपासीत । १ । वायुर्हाईकारो वामदेव्ये सामनि हाइकारः प्रसिद्धो वाय्वप्सम्बन्धश्च वामदेव्यस्य साम्नो योनि- रित्यस्मात् सामान्याद्धाइकारं वायुदृष्ट्यौ- पासीत । २ । चन्द्रमा अथकारः चन्द्रदृष्ट्या अथकारमुपा- सोत अन्ने हीदं स्थितमन्नात्मा चन्द्रः थकारा- कारसामान्याच्च । ३ । आत्मा इह कार इहेति स्तोभः प्रत्यक्षो ह्यात्मा इहेति व्यपदिश्वते इहेति च स्तोभः । ४ । तत्सामान्यादग्निरीकार इति । इ निधा- नानि चाग्नेयानि सर्व्वाणि सामानीत्यतः । ५ ।

स्तोभम्, क्ली, (स्तूयते इति । स्तु + “अर्त्तिस्तुसुहु- स्रिति ।” उणा ०१ । १३९ । इति मन् ।) मस्तकम् । धनम् । शस्यम् । लोहाग्रदण्डः । वक्त्रे, त्रि । इति केचित् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्तोभ¦ पु॰ स्तुभ--घञ्।

१ अथंशून्ये गानादिस्वरपरिपूरणार्थशब्दभेदे यथा सामवेदे इडा हीआइ प्रभृवयः।

२ हेलने

३ स्तम्भने च हेमच॰। [Page5343-a+ 38] स्तोभलक्षणादिकं गानशब्दे

२५

७३ पृ॰ दृश्यम्। तच्चलक्षणं वर्णमात्रस्तोभस्य। वाक्यस्तोभस्य तु नव विधाःभवन्ति तदुक्तं
“आशास्तिः स्तुतिसंख्यामे प्रणवःपरिदेवनम्। प्रैषमन्वेषणञ्चैव सृष्टिरास्थानमेव च” एते तु वाक्यस्तोभाः पदस्तोभाश्च पञ्चदश गानग्रन्थेषुदर्शितास्तत एवावगन्तव्याः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्तोभ¦ m. (-भः)
1. Stopping, obstructing.
2. Disrespect, contumely.
3. A division of the Sa4ma-Ve4da.
4. A stop, a pause.
5. Hymn, praise. E. ष्टुभ् to stop, aff. घञ् |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्तोभः [stōbhḥ], [स्तुभ्-घञ्]

Stopping, obstructing.

A stop, pause.

Disrespect, contumely.

A hymn, praise; साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा । वैकुण्ठनामग्रहणम- शेषाघहरं विदुः ॥ Bhāg.6.2.14.

A division of the Sāmaveda.

Anything inserted; अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥.

The sound or sounds dissimilar to and in excess of the letters of the Ṛik which is set to music; य ऋगक्षरेभ्यो$धिको न च तैः सवर्णः स स्तोभो नाम ŚB. on MS. 9.2.39.

A chanted interjection in a Sāman; सत्यं यज्ञस्तपो वेदाः स्तोभा मन्त्राः सरस्वती Mb.12.199.68.

Torpor, paralysis.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्तोभ m. a chanted interjection in a सामन्(such as हुम्, हो, ओहetc. ) , hum , hurrah , hymn Br. S3rS. MBh. BhP.

स्तोभ m. a partic. division of the साम-वेद(See. )

स्तोभ m. torpor , paralysis= चेष्टा-विघातNalac.

स्तोभ m. disrespect , contumely(= हेलन) L.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्तोभ पु.
(स्तुभ् + घञ्) संगीतीय अध्याहार, साम में प्रक्षिप्त या अध्याहृत गानानुकूल पद ः ‘हाउ, हुं, हौ, औहो’ आदि। इसे गायी गई ऋचा में जोड़े गये वर्णों के रूप में परिभाषित किया गया है। उन ऋचाओं पर जिस पर सामगान आवश्यक है, शा.भा. मी.सू. 11.2.29 पर।

"https://sa.wiktionary.org/w/index.php?title=स्तोभ&oldid=481041" इत्यस्माद् प्रतिप्राप्तम्