सामग्री पर जाएँ

स्तोभः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्तोभः, पुं, (स्तुभ + घञ् ।) सामावयवविशेषः । स तु गीतालापपूरणाक्षरः । स च त्रयोदशविधो यथा । अयं वावलोको हाउकारो १ वायुर्हा- इकार २ श्चन्द्रमाअथकारः ३ । आत्मेहकारो ४ ऽग्निरीकारः ५ आदित्य ऊकारः ६ । निहव एकारो ७ विश्वेदेवा औहोइकारः ८ प्रजा- पतिर्हिकारः ९ । प्राणः स्वरी १० ऽन्नं या ११ वाग्विराङ्निरुक्त १२ स्त्रयोदशः स्तोभः सञ्चरो हुंकारः १३ । दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतामेव~ साम्ना- मुपनिषदं वेदोपनिषदंवेद । इति छान्द्योग्योप- निषद्ब्राह्मणे प्रथमप्रपाठकः समाप्तः ॥ * ॥ अस्य भाष्यम् । भक्तिविषयोपासनं सामा- वयवसम्बन्धमित्यतः सामावयवान्तरस्तोभाक्षर- विषयाण्युपासनान्तराणि संहतान्युपदिश्यन्ते । अनन्तरं सामावयवसम्बन्धत्वाविशेषादयंवावाय मेव लोको हाउकारः स्तोभो रथन्तरे साम्नि प्रसिद्ध इयं वै रथन्तरमित्यस्मात् सम्बन्ध- सामान्याद्धाउकारः स्तोभोऽयं लोक इत्येव- मुपासीत । १ । वायुर्हाईकारो वामदेव्ये सामनि हाइकारः प्रसिद्धो वाय्वप्सम्बन्धश्च वामदेव्यस्य साम्नो योनि- रित्यस्मात् सामान्याद्धाइकारं वायुदृष्ट्यौ- पासीत । २ । चन्द्रमा अथकारः चन्द्रदृष्ट्या अथकारमुपा- सोत अन्ने हीदं स्थितमन्नात्मा चन्द्रः थकारा- कारसामान्याच्च । ३ । आत्मा इह कार इहेति स्तोभः प्रत्यक्षो ह्यात्मा इहेति व्यपदिश्वते इहेति च स्तोभः । ४ । तत्सामान्यादग्निरीकार इति । इ निधा- नानि चाग्नेयानि सर्व्वाणि सामानीत्यतः । ५ ।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्तोभः [stōbhḥ], [स्तुभ्-घञ्]

Stopping, obstructing.

A stop, pause.

Disrespect, contumely.

A hymn, praise; साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा । वैकुण्ठनामग्रहणम- शेषाघहरं विदुः ॥ Bhāg.6.2.14.

A division of the Sāmaveda.

Anything inserted; अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥.

The sound or sounds dissimilar to and in excess of the letters of the Ṛik which is set to music; य ऋगक्षरेभ्यो$धिको न च तैः सवर्णः स स्तोभो नाम ŚB. on MS. 9.2.39.

A chanted interjection in a Sāman; सत्यं यज्ञस्तपो वेदाः स्तोभा मन्त्राः सरस्वती Mb.12.199.68.

Torpor, paralysis.

"https://sa.wiktionary.org/w/index.php?title=स्तोभः&oldid=252516" इत्यस्माद् प्रतिप्राप्तम्