सामग्री पर जाएँ

स्त्रीगुरु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्त्रीगुरुः, पुं, (स्त्री चासौ गुरुश्चेति ।) दीक्षा- कर्त्री । मन्त्रमात्रोपदेष्ट्री । तल्लक्षणं यथा, -- “साध्वी चैव सदाचारा गुरुभक्ता जितेन्द्रिया । सर्व्वमन्त्रार्थतत्त्वज्ञा सुशीला पूजने रता ॥ सर्व्वलक्षणसम्पदा रूपिका पद्मलोचना । रत्नालङ्कारसंयुक्ता स्वर्णाभरणभूषिता ॥ शान्ता कुलोना कुलजा चन्द्रास्या सर्व्व- वुद्धिगा । अनन्तगुणसम्पन्ना रुद्रत्वदायिनी प्रिया ॥ युरुरूपा शक्तिदात्री शिवज्ञानविरूपिणी । गुरुयोग्या भवेत् सा हि विधवा परिवर्ज्जिता ॥ * स्त्रियो दीक्षा शुभा प्रोक्ता मातुश्चाष्टगुणा स्मृता । पुत्त्रिणी विधवा ग्राह्या केवलानन्दकारिणी ॥ सिद्धमन्तं यदि तदा गृह्णीयाद्विधवामुखे । केवलं सुफलं तत्र मातुरष्टगुणं स्मृतम् ॥ स्वयं वा स्वप्नविलये ददाति यदि मन्मनुम् । तत्राष्टगुणमाप्नोति यदि सा पुत्त्रिणी सती ॥ यदि माता स्वीयमन्त्रं ददाति तनुजाय च । तदाष्टसिद्धिमाप्नोति भक्तिमार्गे न सशयः ॥ तदेव दुर्ल्लभं देव यदि मात्रा प्रदीयते ॥ आदौ भक्तिं ततो मुक्तिं सम्प्राप्य कामरूप- धृक् । सहस्रकोटिविद्यार्थं जानाति नात्र संशयः ॥ स्वप्ने वा यदि वा माता ददाति च समन्त्रकम् ॥ पुनर्द्दोक्षां सोऽपि कृत्वा दानवत्यमवाप्नुयात् ॥ यदि भाग्यवशेनैव जननीच्छानुवर्त्तिनी । तदा सिद्धिमवाप्नोति तत्र मन्त्रं विचारयेत् ॥ स्वीयमन्त्रोपदेशेन न कुर्य्याद्गुरुचिन्तनम् ॥” इति स्त्रीगुरुकथनम् ॥ इति रुद्रयामले उत्तरखण्डे २ पटलः पूर्व्वखण्डे १५ पटलश्च ॥ * ॥ तद्ध्यानं गुप्तसाधनतन्त्रे २ पटले तत्पूजनं बृहन्नीलतन्त्रे २ पटले तत्- स्तोत्र कवत्तञ्च मातृकाभेदतन्त्रे ७ पटले द्रष्ट- व्यम् । तद्गीता च कङ्कालमालिनीतन्त्रे २ पटत वेदितव्या ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्त्रीगुरु/ स्त्री--गुरु m. a female Guru or priestess (who teaches initiatory मन्त्रs) MW.

"https://sa.wiktionary.org/w/index.php?title=स्त्रीगुरु&oldid=252730" इत्यस्माद् प्रतिप्राप्तम्