स्त्रीधनम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्त्रीधनम्, क्ली, (स्त्रिया धनम् ।) स्त्रीस्वत्त्वास्पदी- भूतधनम् । तत् षड्विधम् । यथा, -- “अध्यग्न्यध्यावाहनिकं भर्त्तृदायं तथैव च । भ्रातृदत्तं पितृभ्याञ्च षड्विधं स्त्रीधनं स्मृतम् ॥” इति दायभागधृतनारदवचनम् ॥ * ॥ अथ स्त्रीधनम् । तत्र कात्यायनः । “प्राप्तं शिल्पैस्तु यद्वित्तं प्रीत्या चैव यदन्यतः । भर्त्तुः स्वाम्यं भवेत्तत्र शेषन्तु स्त्रीधनं स्मृतम् ॥” अन्यतः पितृमातृभर्त्तृकुलव्यतिरिक्ताद्यल्लब्धं शिल्पेन वा यदर्ज्जितं तत्र भर्त्तुः स्वातन्त्र्यं तेन स्त्रिया अपि धनं न स्त्रीधनं अस्वातन्त्र्यात् एतद्द्वयातिरिक्तधने स्वत्वं स्त्रिया एव दानाद्य- धिकारात् । मनुविष्णू । “पत्यौ जीवति यः कश्चिदलङ्कारो धृतो भवेत् न तं भजेरन् दायादा भजमानाः पतन्ति ते ॥” पत्युरदत्तेऽपि तदनुज्ञया परिहितोऽलङ्कार- स्तावता एव भार्य्यायाः स्वीयो भवतीति मेधा- तिथिः ॥ कात्यायनः । “ऊढया कन्यया वापि पत्युः पितृगृहेऽथवा । भर्त्तुः सकाशात् पित्रोर्व्वा लब्धं सौदायिकं स्मृतम् ॥ सौदायिकं धनं प्राप्य स्त्रीणां स्वातन्त्र्यमिष्यते यस्मात्तदानृशंस्यार्थं तैर्दत्तं तत् प्रजीवनम् ॥ सौदायिके सदा स्त्रीणां स्वातन्त्र्यं परिकीर्त्तितम् विक्रये चैव दाने च यथेष्टं स्थावरेष्वपि ॥” सुदायेभ्यः पितृमातृभर्त्तृकुलसम्बन्धिभ्यो लब्धं सौदायिकम् । आनृशंस्यमनैष्ठुर्य्यम् । नारदः । “भर्त्रा प्रीतेन यद्दत्तं स्त्रियै तस्मिन् मृतेऽपि तत् सा यथाकाममश्नीयाद्दद्याद्वा स्थावरादृते ॥” भर्त्तृदत्तविशेषणात् भर्त्तृदत्तस्थावरादृतेऽन्य- स्थावरं देयमेव । अन्यथा यथेष्टं स्थावरेष्वपि इति कात्यायनोक्तं विरुध्यते । कल्पतरुरत्ना- करयोः कात्यायनः । अपकारक्रियायुक्ता निर्लज्जा चार्थनाशिनी । व्यभिचाररता या च स्त्रीधनं न च सार्हति ॥” याज्ञवल्क्यः । “दुर्भिक्षे धर्म्मकार्य्ये वा व्याधौ संप्रतिरोधके । गृहीतं स्त्रीधनं भर्त्ता नाकामो दातुमर्हति ॥” संप्रतिरोधके भोजनाद्यवरोधकारिण्युत्तमर्णा- दिके । अन्यत्र तु कात्यायनः । “न भर्त्ता नैव च सुतो न पिता भ्रातरो न च । आदाने वा विसर्गे वा स्त्रोधने प्रभविष्णवः ॥” * अथ स्तीधनाधिकारिणः । देवलः । “सामान्यं पुत्त्रकन्यानां मृतायां स्त्रीधनं विदुः ॥ अप्रजायां हरद्भर्त्ता माता भ्राता पितापिवा” । पिण्डदोऽंशहर इति याज्ञवल्क्यीयात् । मातृ- तुल्याः प्रकीर्त्तिता इत्यनेन स्वस्रीयादीनां पुत्त्र- त्वज्ञापनेन एकप्रयोजनकत्वात् । “मातुलो भागिनेयस्य स्वस्रीयो मातुलस्य च । श्वशुरस्य गुरोश्चैव सख्युर्मातामहस्य च ॥ एतेषाञ्चैव भार्य्याभ्यः स्वसुर्मातुः पितुस्तथा । पिण्डदानन्तु कर्त्तव्यमिति वेदविदां स्थितिः । इति शातातपवनात् । पिण्डदानविशेषेणैव षण्णामेषामधिकारक्रमः प्रतिपत्तव्यः । पाठक्रमादर्थक्रमस्य बलवत्त्वात् । अन्यथा सर्व्वशेषे देवराधिकारे महाजनविरोधः स्यात् । तत्र प्रथमं देवरः तत्पिण्डतद्भर्त्तृपिण्ड- तद्भर्त्तृदेयपुरुष-त्रय-पिण्डदत्वात् सपिण्डत्वाच्च- भ्रातृस्त्रीधने अधिकारी । तदभावे भ्रातृश्वशुर- देवरयोः सुतौ तत्पिण्डतद्भर्त्तृपिण्डतद्भर्त्तृदेय- पुरुषद्वयपिण्डदत्वात् सपिण्डत्वाच्च । तयोरभावे त्वसपिण्डोऽपि भगिनीपुत्त्रः तत्पिण्डतत्पुत्त्रदेय- तत्पित्रादित्रयपिण्डदत्वात् । तदभावे भर्त्तृभा- गिनेयः पुत्त्राद्भर्त्तुर्दुर्बलत्वेन तत्स्थानपातिनो- रपि भगिनीपुत्त्रभत्तृभागिनेययोस्तथैव बला- बलस्य न्याय्यत्वेन तद्भर्त्तृदेयपुरुषत्रयपिण्डद- त्वात् तत्पिण्डदत्वात् तद्भर्त्तृपिण्डदत्वाच्च मातु- लानीधने अधिकारी । तदभावे भ्रातृपुत्त्रः तत्पिण्डतत्पुत्त्रदेयतत्पित्रादिपिण्डद्वयदत्वात् पितृस्वसुर्धने अधिकारी । तदभावे श्वशुरयोः पिण्डदानात् जामाता श्वश्रूधने अधिकारीति क्रमः । स्वस्रीयाद्या इति अधिकारिमात्रपरं न पाथिकक्रमपरं एषां षण्णां प्रातिस्विकोक्ताना- मभावे सपिण्डानन्तर्य्येण श्वशुरादिवदधिकारी न च सपिण्डाभावे मातृस्वसेति वचनं वाच्यं अस्मिन्नधिकारिगणने देवरतत्सुतभ्रातृश्वशुर- सुतानांअधिकारज्ञापनादासन्नतरश्वशुरभ्रातृश्व शुरादेः परित्यागादिति । इति दायतत्त्वम् ॥
