सामग्री पर जाएँ

स्त्रीधर्म्मः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्त्रीधर्म्मः, पुं, (स्त्रिया धर्म्मः ।) ऋतुः । तत्प- र्य्यायः । पुष्पम् २ आर्त्तवम् ३ रजः ४ । इति हेमचन्द्रः ॥ (मैथुनम् । यथा हरिवंशे । ८४ । ६१ । “शृण्वती कामजननीर्व्वाचः श्रोत्रसुखावहाः । बर्हिणाञ्चैव विरुतं खगानाञ्च विकूजितम् ॥ अभीक्ष्णमभिशृण्वन्ती स्त्रीधर्म्मं सा व्यरोचयत् ॥” स्त्रीणां शुभकर्म्मादिः । यथा, मनुः । १ । ११४ । “स्त्रीधर्म्मयोगं तापस्यं मोक्षं सन्न्यासमेव च ॥”)

"https://sa.wiktionary.org/w/index.php?title=स्त्रीधर्म्मः&oldid=179179" इत्यस्माद् प्रतिप्राप्तम्